प्रदेयं सूर्यहृदयं ब्रह्मणा तु प्रदर्शितम्
ब्राह्मणानां हितं पुण्यमृषिसङ्घैर्निषेवितम्
प्रज्वाल्य विह्निं विधिवज्जुहुयाज्जातवेदसम्
प्राप्यानुज्ञां विशेषेण जुहुयुर्वा यताविधि
अनन्यमानसो वह्निं जुहुयात् संयतेन्द्रियः
राक्षसं तद्भवेत् सर्वं नामुत्रेह फलप्रदम्
दद्यात् पुष्पादिकं तेषां वृद्धांश्चैवाभिवादयेत्
वेदाभ्यासं ततः कुर्यात् प्रयत्नाच्छक्तितो द्विजः
वैदिकांश्चैव निगमान् वेदाङ्गानि वेशिषतः
साधयेद् विविधानर्थान् कुटुम्बार्थे ततो द्विजः
पुष्पाक्षतान् कुशतिलान् गोमयं शुद्धमेव च
स्नानं समाचरेन्नित्यं गर्तप्रस्त्रवणेषु च
पञ्चपिण्डान् समुद्धृत्य स्नायाद् वासंभवे पुनः
अधश्च तिसृभिः कायं पादौ षड्भिस्तथैव च
गोमयस्य प्रमाणं तत् तेनाङ्गं लेपयेत् ततः
प्रक्षाल्याचम्य विधिवत् ततः स्नायात् समाहितः
भावपूतस्तदव्यक्तं ध्यायन् वै विष्णुमव्ययम्
तस्मान्नारायणं देवं स्नानकाले स्मरेद् बुधः
आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित्
त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसो ऽमृतम्
सावित्रीं वा जपेद् विद्वान् तथा चैवाघमर्षणम्
इदमापः प्रवहत व्याहृतिभिस्तथैव च
अन्तर्जलगतो मग्नो जपेत् त्रिरघमर्षणम्
आवर्तयेद् वा प्रणवं देवं वा संस्मरेद्धरिम्
अन्तर्जले त्रिरावर्त्य सर्वपापैः प्रमुच्यते
विन्यस्य मूर्ध्नि तत् तोयं मुच्यते सर्वपातकैः
तथाघमर्षणं सूक्तं सर्वपापापनोदनम्
प्रक्षिप्यालोकयेद् देवमुद्वयं तमसस्परि
हंसः शुचिषदेतेन सावित्र्या च विशेषतः
सावित्रीं वै जपेत् पश्चाज्जपयज्ञः स वै स्मृतः