मनः शुचिकरं पुंसां नित्यं तत् स्नानमाचरेत्
प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः
मध्याङ्गुलिसमस्थौल्यं द्वादशाङ्गुलसंमितम्
अपामार्गं च बिल्वं च करवीरं विशेषतः
परिहृत्य दिनं पापं भक्षयेद् वै विधानवित्
प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौदेशे समाहितः
आचम्य मन्त्रवन्नित्यं पुनराचम्य वाग्यतः
आपो हिष्ठा व्याहृतिभिः सावित्र्या वारुणैः शुभैः
जप्त्वा जलाञ्जलिं दद्याद् भास्करं प्रति तन्मनाः
प्राणायामत्रयं कृत्वा ध्यायेत् संध्यामिति श्रुतिः
ऐश्वरी तु पराशक्तिस्तत्त्वत्रयसमुद्भवा
प्राङ्मुखः सततं विप्रः संध्योपासनमाचरेत्
यदन्यत् कुरुते किञ्चिन्न तस्य फलमाप्नुयात्
उपास्य विधिवत् संध्यां प्राप्ताः पूर्वं परां गतिम्
विहाय संध्याप्रणतिं स याति नरकायुतम्
उपासितो भवेत् तेन देवो योगतनुः परः
सावित्ररिं वै जपेद् विद्वान् प्राङ्मुखः प्रयतः स्थितः
मन्त्रैस्तु विविधैः सौरेरृग्यजुः सामसंभवैः
कुर्वोत प्रणतिं भूमौ मूर्ध्ना तेनैव मन्त्रतः
नमस्ते घृणिने तुभ्यं सूर्याय ब्रह्मरूपिणे
पुरुषः सन्महो ऽतस्त्वां प्रणमामि कपर्दिनम्
नमो रुद्राय सूर्याय त्वामहं शरणं गतः
नमो नमस्ते रुद्राय त्वामहं शरणं गतः
अम्बिकापतये तुभ्यमुमायाः पतये नमः
विलोहिताय भर्गाय सहस्राक्षाय ते नमः
नमस्ते वज्रहस्ताय त्र्यम्बकाय नमो ऽस्तु ते
हिरण्मयं गृहे गुप्तमात्मानं सर्वदेहिनाम्
विश्वं पशुपतिं भीमं नरनारीशरीरिणम्
उग्राय सर्वभक्ताय त्वां प्रपद्ये सदैव हि
प्रातः काले ऽथ मध्याह्ने नमस्कुर्याद् दिवाकरम्