यावन्ति पशुरोमाणि तावतो नरकान् व्रजेत्
द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः
पीत्वा पतति कर्मभ्यस्त्वसंभाष्यो भवेद् द्विजः
नाधिकारी भवेत् तावद् यावद् तन्न जहात्यधः
अपेयानि च विप्रो वै तथा चेद् याति रौरवम्
तदाचक्ष्वाखिलं कर्म येन मुच्येत बन्धनात्
अहन्यहनि कर्तव्यं ब्राह्मणानां क्रमाद् विधिम्
कायक्लेशं तदुद्भूतं ध्यायीत मनसेश्वरम्
स्नायान्नदीषु सुद्धासु शौचं कृत्वा यथाविधि
तस्मात् सर्वप्रयत्नेन प्रातः स्नानं समाचरेत्
ऋषीणामृषिता नित्यं प्रातः स्नानान्न संशयः
ततो नैवाचरेत् कर्म अकृत्वा स्नानमादितः
प्रातः स्नानेन पापानि पूयन्ते नात्र संशयः
होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत्
आर्द्रेण वाससा वाथ मार्जनं कापिलं स्मृतम्
ब्राह्मादीनि यथाशक्तौ स्नानान्याहुर्मनीषिणः
वारुणं यौगिकं तद्वत् षोढा स्नानं प्रकीर्तितम्
आग्नेयं भस्मना पादमस्तकाद्देहधूलनम्
यत्तु सातपवर्षेण स्नानं तद् दिव्यमुच्यते
यौगिकं स्नानमाख्यातं योगो विष्णुविचिन्तनम्
मनः शुचिकरं पुंसां नित्यं तत् स्नानमाचरेत्
प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः
मध्याङ्गुलिसमस्थौल्यं द्वादशाङ्गुलसंमितम्
अपामार्गं च बिल्वं च करवीरं विशेषतः
परिहृत्य दिनं पापं भक्षयेद् वै विधानवित्
प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौदेशे समाहितः
आचम्य मन्त्रवन्नित्यं पुनराचम्य वाग्यतः
आपो हिष्ठा व्याहृतिभिः सावित्र्या वारुणैः शुभैः
जप्त्वा जलाञ्जलिं दद्याद् भास्करं प्रति तन्मनाः
प्राणायामत्रयं कृत्वा ध्यायेत् संध्यामिति श्रुतिः