यं प्रपश्यन्ति विद्वांसः स्वात्मस्थं परमेश्वरम्
ताम भगवान् ब्रह्मा सृजेमा विविधाः प्रजाः
कपर्दिनो निरातङ्कांस्त्रिनेत्रान् नीललोहितान्
प्रजाः स्त्रक्ष्ये जगन्नाथ सृज त्वमशुभाः प्रजाः
स्थानाभिमानिनः सर्वान् गदतस्तान् निबोधत
नद्यः समुद्राः शैलाश्च वृक्षा वीरुध एव च
अर्धमासाश्च मासाश्च अयनाब्दयुगादयः
दक्षमत्रिं वसिष्ठं च धर्मं संकल्पमेव च
शिरसो ऽङ्गिरसं देवो हृदयाद् भृगुमेव च
संकल्पं चैव संकल्पात् सर्वलोकपितामहः
अपानात् क्रतुमव्यग्रं समानाच्च वसिष्ठकम्
आस्थाय मानवं रूपं धर्मस्तैः संप्रवर्तितः
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत्
ततो ऽस्य जघनात् पूर्वमसुरा जज्ञिरे सुताः
सा तमोबहुला यस्मात् प्रजास्तस्यांस्वपन्त्यतः
ततो ऽस्य मुखतो देवा दीव्यतः संप्रजज्ञिरे
तस्मादहो धर्मयुक्ता देवताः समुपासते
पितृवन्मन्यमानस्य पितरः संप्रजज्ञिरे
सापविद्धा तनुस्तेन सद्यः सन्ध्या व्यजायत
तयोर्मध्ये पितॄणां तु मूर्तिः सन्ध्या गरीयसी
उपासते तदा युक्ता रात्र्यह्नोर्मध्यमां तनुम्
ततो ऽस्य जज्ञिरे पुत्रा मनुष्या रजसावृताः
ज्योत्स्त्रा सा चाभवद्विप्राः प्राक्सन्ध्या याबिधीयते
मूर्ति तमोरजः प्रायां पुनरेवाभ्ययूयुजत्
पुत्रास्तमोरजः प्राया बलिनस्ते निशाचराः
रजस्तमोभ्यामाविष्टांस्ततो ऽन्यानसृजत् प्रभुः
मुखतो ऽजान् ससर्जान्यान् उदराद्गाश्चनिर्ममे
औपध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात्
बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात्