को वा तरति तां मायां दुर्जयां देवनिर्मिताम्
अस्ति द्विजातिप्रवर इन्द्रद्युम्न इति श्रुतः
संहितां मन्मुखाद् दिव्यां पुरस्कृत्य मुनीश्वरान्
मच्छक्तौ संस्थितान् बुद्ध्वा मामेव शरणं गतः
इन्द्रद्युम्न इति ख्यातो जातिं स्मरसि पौर्विकीम्
लब्ध्वा तन्मामकं ज्ञानं मामेवान्ते प्रवेक्ष्यसि
वैवस्वते ऽन्तरे ऽतिते कार्यार्थं मां प्रवेक्ष्यसि
कालधर्मं गतः कालाच्छ्वेतद्वीपे मया सह
मदाज्ञया मुनिश्रेष्ठा जज्ञे विप्रकुले पुनः
विद्याविद्ये गूढरूपे यत्तद् ब्रह्म परं विदुः
व्रतोपवासनियमैर्हेमैर्ब्राह्मणतर्पणैः
आराधयन् महादेवं योगिनां हृदि संस्थितम्
स्वरूपं दर्शयामास दिव्यं विष्णुसमुद्भवम्
संस्तूय विविधैः स्तोत्रैः कृताञ्जलिरभाषत
याथातथ्येन वै भावं तवेदानीं ब्रवीहि मे
हसन्ती संस्मरन् विष्णुं प्रियं ब्राह्मणमब्रवीत्
नारायणात्मिका चैका मायाहं तन्मया परा
तन्मयाहं परं ब्रह्म स विष्णुः परमेश्वरः
ज्ञानेन कर्मयोगेन न तेषां प्रभवाम्यहम्
ज्ञानेनाराधयानन्तं ततो मोक्षमवाप्स्यसि
प्रणम्य शिरसा देवीं प्राञ्जलिः पुनरब्रवीत्
ज्ञातुं हि शक्यते देवि ब्रूहि मे परमेश्वरि
साक्षान्नारायणो ज्ञानं दास्यतीत्याह तं मुनिम्
स्मृत्वा परात्परं विष्णुं तत्रैवान्तरधीयत
आराधयद्धृषीकेशं प्रणतार्तिप्रभञ्जनम्
प्रादुरासीन्महायोगी पीतवासा जगन्मयः
जानुभ्यामवनिं गत्वा तुष्टाव गरुडध्वजम्
कुष्ण विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः
सर्गस्थितिविनाशानां हेतवे ऽनन्तशक्ये
पुरुषाय नमस्तुभ्यं विश्वरूपाय ते नमः