वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च
कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा
विद्धप्रजननस्यान्नं परिवित्त्यन्नमेव च
गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम्
यो यस्यान्नं समश्नाति स तस्याश्नानि किल्बिषम्
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्
एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्पं पणं बुधैः
पिण्याकं चैव तैलं च शूद्राद् ग्राह्यं द्विजातिभिः
पलाण्डुं लशुनं शुक्तं निर्यासं चैव वर्जयेत्
विलयं सुमुखं चैव कवकानि च वर्जयेत्
उदुम्बरमलाबुं च जग्ध्वा पतति वै द्विजः
अनुपाकृतमांसं च देवान्नानि हवींषि च
नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत्
रात्रौ च तिलसंबद्धं प्रयत्नेन दधि त्यजेत्
क्रियादुष्टं भावदुष्टमसत्संसर्गि वर्जयेत्
श्वाघ्रातं च पुनः सिद्धं चण्डालावेक्षितं तथा
अनर्चितं पुर्युं षितं पर्यायान्नं च नित्यशः
मनुष्यैरप्यवघ्रातं कुष्ठिना स्पृष्टमेव च
मलबद्वाससा वापि परवासो ऽथ वर्जयेत्
आविकं सन्धिनीक्षीरमपेयं मनुरब्रवीत्
कुररं च चकोरं च जालपादं च कोकिलम्
कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च
शृगालं मर्कटं चैव गर्दभं च न भक्षयेत्
जलेचरान् स्थलचरान् प्राणिनश्चेति धारणा
भक्ष्याः पञ्चनखा नित्यं मनुराह प्रिजापतिः
निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यस्तु नान्यथा
वाध्रीणसं बकं भक्ष्यं मीनहंसपराजिताः
मत्स्याश्चैते समुद्दिष्टा भक्षणाय द्विजोत्तमाः
यथाविधि नियुक्तं च प्राणानामपि चात्यये
औषधार्थमशक्तौ वा नियोगाद् यज्ञकारणात्