स्वमग्निं नैव हस्तेन स्पृशेन्नाप्सु चिरं वसेत्
मुखे नैव धमेदग्निं मुखादग्निरजायत
नैकश्चरेत् सभां विप्रः समवायं च वर्जयेत्
न वीजयेद् वा वस्त्रेण न देवायतने स्वपेत्
न व्याधिदूषितैर्वापि न शूद्रैः पतितेन वा
नाग्निगोब्राह्मणादीनामन्तरेण व्रजेत् क्वचित्
न निन्देद् योगिनः सिद्धान् व्रतिनो वायतींस्तथा
नाक्रामेत् कामतश्छायां ब्राह्मणानां च गोरपि
नाङ्गारभस्मकेशादिष्वधितिष्ठेत् कदाचन
न भक्षयेदभक्ष्याणि नापेयं च पिबेद् द्विजः
स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि
जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते
यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात्
गणान्नं गणिकान्नं च षण्ढान्नं चैव वर्जयेत्
गान्धर्वलोहकारान्नं सूतकान्नं च वर्जयेत्
पौनर्भवच्छत्रिकयोरभिशस्तस्य चैव हि
चिकित्सकस्य चैवान्नं पुंश्चल्या दण्डिकस्य च
सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः
उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः
भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षुतम्
वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च
कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा
विद्धप्रजननस्यान्नं परिवित्त्यन्नमेव च
गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम्
यो यस्यान्नं समश्नाति स तस्याश्नानि किल्बिषम्
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्
एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्पं पणं बुधैः
पिण्याकं चैव तैलं च शूद्राद् ग्राह्यं द्विजातिभिः
पलाण्डुं लशुनं शुक्तं निर्यासं चैव वर्जयेत्
विलयं सुमुखं चैव कवकानि च वर्जयेत्