नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत्
चैत्यं वृक्षं न वै छिन्द्यान्नाप्सु ष्ठीवनमाचरेत्
तुषाङ्गारकरीषं वा नाधितिष्ठेत् कदाचन
न चैनं पादतः कुर्यान्मुखेन न धमेद् बुधः
अग्नौ न च क्षिपेदग्निं नाद्भिः प्रशमयेत् तथा
अपण्यं कूटपण्यं वा विक्रये न प्रयोजयेत्
पुण्यस्थानोदकस्थाने सीमान्तं वा कृषेन्न तु
परस्परं पशून् व्यालान् पक्षिणो नावबोधयेत्
सायंप्रातर् गृहद्वारान् भिक्षार्थं नावघट्टयेत्
विगृह्य वादं कुद्वारप्रवेशं च विवर्जयेत्
स्वमग्निं नैव हस्तेन स्पृशेन्नाप्सु चिरं वसेत्
मुखे नैव धमेदग्निं मुखादग्निरजायत
नैकश्चरेत् सभां विप्रः समवायं च वर्जयेत्
न वीजयेद् वा वस्त्रेण न देवायतने स्वपेत्
न व्याधिदूषितैर्वापि न शूद्रैः पतितेन वा
नाग्निगोब्राह्मणादीनामन्तरेण व्रजेत् क्वचित्
न निन्देद् योगिनः सिद्धान् व्रतिनो वायतींस्तथा
नाक्रामेत् कामतश्छायां ब्राह्मणानां च गोरपि
नाङ्गारभस्मकेशादिष्वधितिष्ठेत् कदाचन
न भक्षयेदभक्ष्याणि नापेयं च पिबेद् द्विजः
स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि
जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते
यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात्
गणान्नं गणिकान्नं च षण्ढान्नं चैव वर्जयेत्
गान्धर्वलोहकारान्नं सूतकान्नं च वर्जयेत्
पौनर्भवच्छत्रिकयोरभिशस्तस्य चैव हि
चिकित्सकस्य चैवान्नं पुंश्चल्या दण्डिकस्य च
सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः
उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः
भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षुतम्