दृष्टं विशोधनं वृद्धैर्नास्ति मिथ्याभिशंसने
तिरोहितं वाससा वा नादर्शान्तरगामिनम्
नाशुचिः सूर्यसोमादीन् ग्रहानालोकयेद् बुधः
नाभिभाषेत च परमुच्छिष्टो वावगुण्ठितः
नामुक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा
क्षुवन्तीं जृम्भमाणां वा नासनस्थां यथासुखम्
न लङ्घयेच्च मूत्रं वा नाधितिष्ठेत् कदाचन
नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः
न च क्रोधवशं गच्छेद् द्वेषं रागं च वर्जयेत्
ईर्ष्यां मदं तथा शोकं मोहं च परिवर्जयेत्
न हीनानुपसेवेत न च तीक्ष्णमतीन् क्वचित्
न विशिष्टानसत्कुर्यात् नात्मानं वा शपेद् बुधः
न नदीषु नदीं ब्रूयात् पर्वतेषु च पर्वतान्
नावगाहेदपो नग्नो वह्निं नातिव्रजेत् पदा
रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत्
न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित्
नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन
न म्लेच्छभाषां शिक्षेत नाकर्षेच्च पदासनम्
कुर्याद् विमर्दनं धीमान् नाकस्मादेव निष्फलम्
न नृत्येदथवा गायेन्न वादित्राणि वादयेत्
न लौकिकैः स्तवैर्देवांस्तोषयेद् बाह्यजैरपि
नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत्
न दन्तैर्नखरोमाणि छिन्द्यात् सुप्तं न बोधयेत्
नैकः सुप्याच्छून्यगृहे स्वयं नोपानहौ हरेत्
न पादक्षालनं कुर्यात् पादेनैव कदाचन
वाय्वग्निगुरुविप्रान् वा सूर्यं वा शशिनं प्रति
बहिर्निष्क्रमणं चैव न कुर्वोत कथञ्चन
उभयोः संध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत्
न चासनं पदा वापि न देवप्रतिमां स्पृशेत्
नावगाहेदगाधाम्बु धारयेन्नानिमित्ततः