परस्मै कथयेद् विद्वान् शशिनं वा कदाचन
आत्मनः प्रतिकूलानि परेषां न समाचरेत्
नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः
वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत्
न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः
कल्पकोटिशतं साग्रं रौरवे पच्यते नरः
कर्णौ पिधाय गन्तव्यं न चैतानवलोकयेत्
विवादं स्वजनैः सार्धं न कुर्याद् वै कदाचन
सतेनतुल्यदोषः स्यान्मिथ्या द्विर्देषवान् भवेत्
तानिपुत्रान् पशून्घ्निन्ति तेषां मिथ्याभिशंसिनाम्
दृष्टं विशोधनं वृद्धैर्नास्ति मिथ्याभिशंसने
तिरोहितं वाससा वा नादर्शान्तरगामिनम्
नाशुचिः सूर्यसोमादीन् ग्रहानालोकयेद् बुधः
नाभिभाषेत च परमुच्छिष्टो वावगुण्ठितः
नामुक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा
क्षुवन्तीं जृम्भमाणां वा नासनस्थां यथासुखम्
न लङ्घयेच्च मूत्रं वा नाधितिष्ठेत् कदाचन
नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः
न च क्रोधवशं गच्छेद् द्वेषं रागं च वर्जयेत्
ईर्ष्यां मदं तथा शोकं मोहं च परिवर्जयेत्
न हीनानुपसेवेत न च तीक्ष्णमतीन् क्वचित्
न विशिष्टानसत्कुर्यात् नात्मानं वा शपेद् बुधः
न नदीषु नदीं ब्रूयात् पर्वतेषु च पर्वतान्
नावगाहेदपो नग्नो वह्निं नातिव्रजेत् पदा
रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत्
न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित्
नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन
न म्लेच्छभाषां शिक्षेत नाकर्षेच्च पदासनम्
कुर्याद् विमर्दनं धीमान् नाकस्मादेव निष्फलम्
न नृत्येदथवा गायेन्न वादित्राणि वादयेत्