ततोर्ऽवाक्स्त्रोतसां सर्गः सप्तमः स तु मानुषः
नवमश्चैव कौमारः प्राकृता वैकृतास्त्विमे
बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्या मुनिपुङ्गवाः
ऋभुं सनात्कुमारं च पूर्वमेव प्रजापतिः
ईश्वरासक्तमनसो न सृष्टौ दधिरे मतिम्
मुमोह मायया सद्यो मायिनः परमेष्ठिनः
नारायणो महायोगी योगिचित्तानुरञ्जनः
स तप्यमानो भगवान् न किञ्चित् प्रतिपद्यत
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रु बिन्दवः
समुत्पन्नो महादेवः शरण्यो नीललोहितः
यं प्रपश्यन्ति विद्वांसः स्वात्मस्थं परमेश्वरम्
ताम भगवान् ब्रह्मा सृजेमा विविधाः प्रजाः
कपर्दिनो निरातङ्कांस्त्रिनेत्रान् नीललोहितान्
प्रजाः स्त्रक्ष्ये जगन्नाथ सृज त्वमशुभाः प्रजाः
स्थानाभिमानिनः सर्वान् गदतस्तान् निबोधत
नद्यः समुद्राः शैलाश्च वृक्षा वीरुध एव च
अर्धमासाश्च मासाश्च अयनाब्दयुगादयः
दक्षमत्रिं वसिष्ठं च धर्मं संकल्पमेव च
शिरसो ऽङ्गिरसं देवो हृदयाद् भृगुमेव च
संकल्पं चैव संकल्पात् सर्वलोकपितामहः
अपानात् क्रतुमव्यग्रं समानाच्च वसिष्ठकम्
आस्थाय मानवं रूपं धर्मस्तैः संप्रवर्तितः
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत्
ततो ऽस्य जघनात् पूर्वमसुरा जज्ञिरे सुताः
सा तमोबहुला यस्मात् प्रजास्तस्यांस्वपन्त्यतः
ततो ऽस्य मुखतो देवा दीव्यतः संप्रजज्ञिरे
तस्मादहो धर्मयुक्ता देवताः समुपासते
पितृवन्मन्यमानस्य पितरः संप्रजज्ञिरे
सापविद्धा तनुस्तेन सद्यः सन्ध्या व्यजायत
तयोर्मध्ये पितॄणां तु मूर्तिः सन्ध्या गरीयसी