मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद् द्विजः
पुण्याश्च विश्रुता नद्यस्तत्र वा निवसेद् द्विजः
नान्यत्र निवसेत् पुण्यं नान्त्यजग्रामसन्निधौ
न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः
याजनाध्यापने योनिस्तथैव सहभोजनम्
एकादश समुद्दिष्टा दोषाः साङ्कर्यसंज्ञिताः
तस्मात् सर्वप्रयत्नेन साङ्कर्यं परिवर्जयेत्
भस्मना कृतमर्यादा न तेषां संकरो भवेत्
द्वारेण स्तम्भमार्गेण षड्भिः पङ्क्तिर्विभिद्यते
न संवदेत् सूतके च न कञ्चिन्मर्मणि स्पृशेत्
परस्मै कथयेद् विद्वान् शशिनं वा कदाचन
आत्मनः प्रतिकूलानि परेषां न समाचरेत्
नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः
वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत्
न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः
कल्पकोटिशतं साग्रं रौरवे पच्यते नरः
कर्णौ पिधाय गन्तव्यं न चैतानवलोकयेत्
विवादं स्वजनैः सार्धं न कुर्याद् वै कदाचन
सतेनतुल्यदोषः स्यान्मिथ्या द्विर्देषवान् भवेत्
तानिपुत्रान् पशून्घ्निन्ति तेषां मिथ्याभिशंसिनाम्
दृष्टं विशोधनं वृद्धैर्नास्ति मिथ्याभिशंसने
तिरोहितं वाससा वा नादर्शान्तरगामिनम्
नाशुचिः सूर्यसोमादीन् ग्रहानालोकयेद् बुधः
नाभिभाषेत च परमुच्छिष्टो वावगुण्ठितः
नामुक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा
क्षुवन्तीं जृम्भमाणां वा नासनस्थां यथासुखम्
न लङ्घयेच्च मूत्रं वा नाधितिष्ठेत् कदाचन
नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः
न च क्रोधवशं गच्छेद् द्वेषं रागं च वर्जयेत्
ईर्ष्यां मदं तथा शोकं मोहं च परिवर्जयेत्