साक्षाद् देवो महादेवस्तज्ज्ञानमिति कीर्तितम्
महायज्ञपरो विप्रो लभते तदनुत्तमम्
न हि देहं विना रुद्रः पुरुषैर्विद्यते परः
न धर्मवर्जितं काममर्थं वा मनसा स्मरेत्
धर्मो हि भगवान् देवो गतिः सर्वेषु जन्तुषु
न वेददेवतानिन्दां कुर्यात् तैश्च न संवसेत्
अध्यापयेत् श्रावयेद् वा ब्रह्मलोके महीयते
नाहितं नाप्रियं वाक्यं न स्तेनः स्याद् कदाचन
परस्यापहरञ्जन्तुर्नरकं प्रतिपद्यते
न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद् बुधः
प्राणानपहरत्येवं याचकस्तस्य दुर्मतिः
ब्रह्मस्वं वा नापहरेदापद्यपि कदाचन
देवस्वं चापि यत्नेन सदा परिहरेत् ततः
अदत्तादानमस्तेयं मनुः प्राह प्रजापतिः
नैकस्मादेव नियतमननुज्ञाय केवलम्
धर्मार्थं केवलं विप्रा ह्यन्यथा पतितो भवेत्
क्षुधार्तैर्नान्यथा विप्रा धर्मविद्भिरिति स्थितिः
व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम्
छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति
स लिङ्गिनां हरेदेनस्तिर्यग्योनौ च जायते
सद्यः पतन्ति पापेषु कर्मणस्तस्य तत् फलम्
पञ्चरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्चयेत्
द्विजनिन्दारतांश्चैव मनसापि न चिन्तयेत्
कुर्वाणः पतते जन्तुस्तस्माद् यत्नेन वर्जयेत्
ज्ञानापवादो नास्तिक्यं तस्मात् कोटिगुणाधिकम्
कुलान्यकुलतां यान्ति यानि हीनानि धर्मतः
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च
अश्रौतधर्माचरणात् क्षिप्रं नश्यति वै कुलम्
विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम्
न शूद्रराज्ये निवसेन्न पाषण्डजनैर्वृते