दैवतान्यपि गच्छेत कुर्याद् भार्याभिपोषणम्
कुर्वोतात्महितं नित्यं सर्वभूतानिकम्पकः
वेषवाग्बुद्धिसारूप्यमाचरन् विचरेत् सदा
तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित्
तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यति
सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्पते
अनसूयी मृदुर्दान्तो गृहस्थः प्रेत्य वर्धते
सावित्रीजाप्यनिरतः श्राद्धकृन्मुच्यते गृही
दान्तो यज्वा देवभक्तो ब्रह्मलोके महीयते
कुर्यादहरहर्नित्यं नमस्येत् प्रयतः सुरान्
गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत्
अध्यात्मनिरतं ज्ञानमेतद् ब्राह्मणलक्षणम्
यथाशक्तिं चरन् कर्म निन्दितानि विवर्जयेत्
गृहस्थो मुच्यते बन्धात् नात्र कार्या विचारणा
अन्यमन्युसमुत्थानां दोषाणां मर्षणं क्षमा
दयेति मुनयः प्राहुः साक्षाद् धर्मस्य साधनम्
विज्ञानमिति तद् विद्याद् येन धर्मो विवर्धते
धर्मकार्यान्निवृत्तश्चेन्न तद् विज्ञानमिष्यते
यथाभूतप्रवाद् तु सत्यमाहुर्मनीषिणः
अध्यात्ममक्षरं विद्याद् यत्र गत्वा न शोचति
साक्षाद् देवो महादेवस्तज्ज्ञानमिति कीर्तितम्
महायज्ञपरो विप्रो लभते तदनुत्तमम्
न हि देहं विना रुद्रः पुरुषैर्विद्यते परः
न धर्मवर्जितं काममर्थं वा मनसा स्मरेत्
धर्मो हि भगवान् देवो गतिः सर्वेषु जन्तुषु
न वेददेवतानिन्दां कुर्यात् तैश्च न संवसेत्
अध्यापयेत् श्रावयेद् वा ब्रह्मलोके महीयते
नाहितं नाप्रियं वाक्यं न स्तेनः स्याद् कदाचन
परस्यापहरञ्जन्तुर्नरकं प्रतिपद्यते
न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद् बुधः