कदाचिदपि नाध्येयं कोविदारकपित्थयोः
आचार्ये संस्थिते वापि त्रिरात्रं क्षपणं स्मृतम्
हिंसन्ति राक्षसास्तेषु तस्मादेतान् विवर्जयेत्
उपाकर्मणि कर्मान्ते होममन्त्रेषु चैव हि
अष्टकाद्यास्वधीयीत मारुते चातिवायति
न धर्मशास्त्रेष्वन्येषु पर्वण्येतानि वर्जयेत्
ब्रह्मणाभिहितः पूर्वमृषीणां भावितात्मनाम्
स संमूढो न संभाष्यो वेदबाह्यो द्विजातिभिः
पाठमात्रावसन्नस्तु पङ्के गौरिव सीदति
ससान्वयः शूद्रकल्पः पात्रतां न प्रपद्यते
युक्तः परिचरेदेनमाशरीरविमोक्षणात्
अधीयीत सदा नित्यं ब्रह्मनिष्ठः समाहितः
अभ्यसेत् सततं युक्ते भस्मस्नानपरायणः
स्वायंभुवो यन्मनुराह देवः
याति तत् पदमनामयं शिवम्
अधीत्य चाधिगम्यार्थं ततः स्नायाद् द्विजोत्तमः
चीर्णव्रतो ऽथ युक्तात्मा सशक्तः स्नातुमर्हति
यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम्
रौक्मे च कुण्डले वेदं कृत्तकेशनखः शुचिः
अन्यत्रकाञ्चनाद् विप्रोनरक्तां बिभृयात् स्त्रजम्
न जीर्णमलवद्वासा भवेद् वै विभवे सति
नोपानहौ स्त्रजं चाथ पादुके च प्रयोजयेत्
नापसव्यं परीदध्याद् वासो न विकृतं वसेत्
रूपलक्षणसंयुक्तान् योनिदोषविवर्जितान्
आहरेद् ब्राह्मणो भार्यां शीलशौचसमन्विताम्
वर्जयेत् प्रतिषिद्धानि प्रयत्नेन दिनानि तु
ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि
व्रतानि स्नातको नित्यं पावनानि च पालयेत्
अकुर्वाणः पतत्याशु नरकानतिभीषणान्
कुर्याद् गृह्याणि कर्माणि संध्योपासनमेव च