सज्योतिः स्यादनध्यायः शेषरात्रौ यथा दिवा
धर्मनैपुण्यकामानां पूतिगन्धे च नित्यशः
अनध्यायो रुद्यमाने समवाये जनस्य च
उच्छिष्टः श्राद्धबुक् चैव मनसापि न चिन्तयेत्
त्र्यहं न कीर्तयेद् ब्रह्म राज्ञो राहोश्च सूतके
विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्तयेत्
नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च
अमावास्यां चतुर्दश्यां पौर्णमास्यष्टमीषु च
अष्टकासु त्वहोरात्रं ऋत्वन्त्यासु च रात्रिषु
तिस्त्रो ऽष्टकाः समाख्याता कृष्णपक्षेतु सूरिभिः
कदाचिदपि नाध्येयं कोविदारकपित्थयोः
आचार्ये संस्थिते वापि त्रिरात्रं क्षपणं स्मृतम्
हिंसन्ति राक्षसास्तेषु तस्मादेतान् विवर्जयेत्
उपाकर्मणि कर्मान्ते होममन्त्रेषु चैव हि
अष्टकाद्यास्वधीयीत मारुते चातिवायति
न धर्मशास्त्रेष्वन्येषु पर्वण्येतानि वर्जयेत्
ब्रह्मणाभिहितः पूर्वमृषीणां भावितात्मनाम्
स संमूढो न संभाष्यो वेदबाह्यो द्विजातिभिः
पाठमात्रावसन्नस्तु पङ्के गौरिव सीदति
ससान्वयः शूद्रकल्पः पात्रतां न प्रपद्यते
युक्तः परिचरेदेनमाशरीरविमोक्षणात्
अधीयीत सदा नित्यं ब्रह्मनिष्ठः समाहितः
अभ्यसेत् सततं युक्ते भस्मस्नानपरायणः
स्वायंभुवो यन्मनुराह देवः
याति तत् पदमनामयं शिवम्
अधीत्य चाधिगम्यार्थं ततः स्नायाद् द्विजोत्तमः
चीर्णव्रतो ऽथ युक्तात्मा सशक्तः स्नातुमर्हति
यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम्
रौक्मे च कुण्डले वेदं कृत्तकेशनखः शुचिः
अन्यत्रकाञ्चनाद् विप्रोनरक्तां बिभृयात् स्त्रजम्