विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः
मातृवद् वृत्तिमातिष्ठेन्मात् ताभ्यो गरीयसी
वेदमध्यापयेद् धर्मं पुराणाङ्गानि नित्यशः
हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः
शक्तो ऽन्नदोर्ऽथो स्वःसाधुरध्याप्या दश धर्मतः
एतेषु ब्रह्मणो दानमन्यत्र तु यथोदितान्
अधीष्व भो इति ब्रूयाद् विरामो ऽस्त्विति चारमेत्
प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति
कुर्यादध्ययनं नित्यं स ब्रह्माञ्जलिपूर्वतः
अधीयीताप्ययं नित्यं ब्राह्मण्याच्च्यवते ऽन्यथा
प्रीणाति तर्पयन्त्येनं कामैस्तृप्ताः सदैव हि
सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम्
धर्माङ्गानि पुराणानि मांसैस्तर्पयते सुरान्
गायत्रीमप्यधीयीत गत्वारण्यं समाहितः
गायत्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्तितः
एकतश्चतुरो वेदान् गायत्रीं च तथैकतः
ततो ऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः
महाव्याहृतयस्तिस्त्रः सर्वाशुभनिबर्हणाः
सत्त्वं रजस्तमस्तिस्त्रः क्रमाद् व्याहृतयः स्मृताः
एष मन्त्रो महायोगः सारात् सार उदाहृतः
विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम्
न गायत्र्याः परं जप्यमेतद् विज्ञाय मुच्यते
आषाढ्यां प्रोष्ठपद्यां वा वेदोपाकरणं स्मृतम्
अधीयीत शुचौ देशे ब्रह्मचारी समाहितः
माघशुक्लस्य वा प्राप्ते पूर्वाह्ने प्रथमे ऽहनि
वेदाङ्गानि पुराणानि कृष्णपक्षे च मानवम्
अध्यापनं च कुर्वाणो ह्यभ्यस्यन्नपि यत्नतः
आकालिकमनध्यायमेतेष्वाह प्रजापतिः
तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने
एतानाकालिकान् विद्यादनध्यायानृतावपि