न चैवास्यानुकुर्वोत गतिभाषणचेष्टितम्
कर्णैं तत्र पिधातव्यौ गन्तव्यं वा ततो ऽन्यतः
न चैवास्योत्तरं ब्रूयात् स्थितो नासीत सन्निधौ
मार्जनं लेपनं नित्यमङ्गानां वै समाचरेत्
आक्रमेदासनं चास्य छायादीन् वा कदाचन
अनापृच्छ्य न गन्तव्यं भवेत् प्रियहिते रतः
वर्जयेत् सन्निधौ नित्यमवस्फोचनमेव च
आसीताधो गुरोः कूर्चे फलके वा समाहितः
धावन्तमनुधावेत गच्छन्तमनुगच्छति
आसीत गुरुणा सार्धं शिलाफलकनौषु च
प्रयुञ्जीत सदा वाचं मधुरां हितभाषिणीम्
अभ्यङ्गं चाञ्चनोपानच्छत्रधारणमेव च
परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत्
आहरेद् यावदर्थानि भैक्ष्यं चाहरहश्चरेत्
अनृत्यदर्शो सततं भवेद् गीतादिनिः स्पृहः
एकान्तमशुचिस्त्रीभिः शूद्रान्त्यैरभिभाषणम्
कलापकर्षणस्नानं नाचरेद्धि कदाचन
मोहाद्वा यदि वा लोभात् त्यक्तेन पतितो भवेत्
आददीत यतो ज्ञानं न तं द्रुह्येत् कदाचन
उत्पथप्रतिपन्नस्य मनुस्त्यागं समब्रवीत्
न चातिसृष्टो गुरुणा स्वान् गुरूनबिवादयेत्
प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि
गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु
अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति
न कुर्याद् गुरुपुत्रस्य पादयोः शौचमेव च
असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम्
कुर्वोत वन्दनं भूम्यामसावहमिति ब्रुवन्
गुरुदारेषु कुर्वोत सतां धर्ममनुस्मरन्
संपूज्या गुरुपत्नीव समास्ता गुरुभार्यया