न सोपानत्पादुको वा छत्री वा नान्तरिक्षके
न देवदेवालययोरपामपि कदाचन
प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च
कुर्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः
न मार्गान्नोषराद् देशाच्छौचशिष्टां परस्य च
उपस्पृशेत् ततो नित्यं पूर्वोक्तेन विधानतः
आहूतो ऽध्ययनं कुर्याद् वीक्षमाणो गुरोर्मुखम्
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः
नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः
गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत्
न चैवास्यानुकुर्वोत गतिभाषणचेष्टितम्
कर्णैं तत्र पिधातव्यौ गन्तव्यं वा ततो ऽन्यतः
न चैवास्योत्तरं ब्रूयात् स्थितो नासीत सन्निधौ
मार्जनं लेपनं नित्यमङ्गानां वै समाचरेत्
आक्रमेदासनं चास्य छायादीन् वा कदाचन
अनापृच्छ्य न गन्तव्यं भवेत् प्रियहिते रतः
वर्जयेत् सन्निधौ नित्यमवस्फोचनमेव च
आसीताधो गुरोः कूर्चे फलके वा समाहितः
धावन्तमनुधावेत गच्छन्तमनुगच्छति
आसीत गुरुणा सार्धं शिलाफलकनौषु च
प्रयुञ्जीत सदा वाचं मधुरां हितभाषिणीम्
अभ्यङ्गं चाञ्चनोपानच्छत्रधारणमेव च
परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत्
आहरेद् यावदर्थानि भैक्ष्यं चाहरहश्चरेत्
अनृत्यदर्शो सततं भवेद् गीतादिनिः स्पृहः
एकान्तमशुचिस्त्रीभिः शूद्रान्त्यैरभिभाषणम्
कलापकर्षणस्नानं नाचरेद्धि कदाचन
मोहाद्वा यदि वा लोभात् त्यक्तेन पतितो भवेत्
आददीत यतो ज्ञानं न तं द्रुह्येत् कदाचन
उत्पथप्रतिपन्नस्य मनुस्त्यागं समब्रवीत्