संमृज्याङ्गुष्ठमूलेन मुखं वै समुपस्पृशेत्
तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापृटद्वयम्
संस्पृशेद् वा शिरस्तद्वदङ्गुष्ठेनाथवा द्वयम्
ब्रह्मा विष्णुर्महेशश्च भवन्तीत्यनुशुश्रुमः
संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ
कर्णयोः स्पृष्टयोस्तद्वत् प्रीयेते चानिलानलौ
मूर्ध्नि संस्पर्शनादेकः प्रीतः स पुरुषो भवेत्
दन्तवद् दन्तलग्नेषु जिह्वास्पर्शे ऽशुचिर्भवेत्
भूमिगैस्ते समा ज्ञेया न तैरप्रयतो भवेत्
फलमूले चेक्षुदण्डे न दोषं प्राह वे मनुः
भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत्
भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत्
वस्त्रादिषु विकल्पः स्यात् तत्संस्पृष्ट्वाचमेदिह
कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति
अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद् दक्षिणामुखः
प्रावृत्य च शिरः कुर्याद् विण्मूत्रस्य विसर्जनम्
अग्नौ चैव श्मशाने च विण्मूत्रे न समाचरेत्
न तिष्ठन् वा न निर्वासा न च पर्वतमस्तके
न ससत्त्वेषु गर्तेषु न गच्छन् वा समाचरेत्
न क्षेत्रे न विले वापि न तीर्थे न चतुष्पथे
न सोपानत्पादुको वा छत्री वा नान्तरिक्षके
न देवदेवालययोरपामपि कदाचन
प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च
कुर्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः
न मार्गान्नोषराद् देशाच्छौचशिष्टां परस्य च
उपस्पृशेत् ततो नित्यं पूर्वोक्तेन विधानतः
आहूतो ऽध्ययनं कुर्याद् वीक्षमाणो गुरोर्मुखम्
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः
नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः
गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत्