भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत्
भैक्ष्यस्य चरणं प्रोक्तं पतितादिषु वर्जितम्
ब्रह्मचर्याहरेद् भैक्षं गृहेभ्यः प्रयतो ऽन्वहम्
अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत्
नियम्य प्रयतो वाचं दिशस्त्वनवलोकयन्
भुञ्जीत प्रयतो नित्यं वाग्यतो ऽनन्यमानसः
भैक्ष्येण व्रतिनो वृत्तिरुपवाससमा स्मृता
दृष्ट्वा हृष्येत् प्रसीदेच्च प्रतिनन्देच्च सर्वशः
अपुण्यं लोकविद्विष्टं तस्मात् तत्परिवर्जयेत्
नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः
शुचौ देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत्
ओष्ठावलमोकौ स्पृष्ट्वा वासो विपरिधाय च
ष्ठीवित्वाध्ययनारम्भे कासश्वासागमे तथा
संध्ययोरुभयोस्तद्वदाचान्तो ऽप्याचमेत् पुनः
आचामेदश्रुपाते वा लोहितस्य तथैव च
आचान्तो ऽप्याचमेत् सुप्त्वा सकृत्सकृदथान्यतः
स्त्रीणामथात्मनः स्पर्शे नीवीं वा परिधाय च
केशानां चात्मनः स्पर्शे वाससो ऽक्षालितस्य च
शौचेप्सुः सर्वदाचामेदासीनः प्रागुदङ्मुखः
अकृत्वा पादयोः शौचमाचान्तो ऽप्यशुचिर्भवेत्
न चैव वर्षधाराभिर्न तिष्ठन् नोद्धृतोदकैः
न पादुकासनस्थो वा बहिर्जानुरथापि वा
नावीक्षिताभिः फेनाद्यैरुपेताभिरथापि वा
न चैवाङ्गुलिभिः शब्दं न कुर्वन् नान्यमानसः
न पाणिक्षुभिताभिर्वा न बहिष्कक्ष एव वा
प्राशिताभिस्तथावैश्यः स्त्रीशूद्रौ स्पर्शतो ऽन्ततः
अन्तराङ्गुष्ठदेशिन्यो पितॄणां तीर्थमुत्तमम्
अङ्गुल्यग्रे स्मृतं दैवं तदेवार्षं प्रकीर्तितम्
तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति
कायेन वाथ दैवेन तु पित्र्येण वै द्विजाः