तावत् सर्वं परित्यज्य पुत्रः स्यात् तत्परायणः
स पुत्रः सकलं धर्ममाप्नुयात् तेन कर्मणा
तयोः प्रत्युपकारो ऽपि न कथञ्चन विद्यते
न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत्
धर्मसारः समुद्दिष्टः प्रेत्यानन्तफलप्रदः
शिष्यो विद्याफलं भुङ्क्ते प्रेत्य चापद्यते दिवि
तेन दोषेण स प्रेत्य निरयं घोरमृच्छति
याति दातरि लोके ऽस्मिन् उपकाराद्धि गौरवम्
तेषामथाक्षयांल्लोकान् प्रोवाच भगवान् मनुः
असावहमिति ब्रूयुः प्रत्युत्थाय यवीयसः
भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित्
ब्राह्मणः क्षत्रियाद्यैश्च श्रीकामैः सादरं सदा
ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः
सवर्णेषु सवर्णानां कार्यमेवाभिवादनम्
पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः
मान्यस्थानानि पञ्चाहुः पूर्वं पूर्वं गुरूत्तरात्
यत्र स्युः सो ऽत्र मानार्हः शूद्रो ऽपि दशमीं गतः
वृद्धाय भारबुग्नाय रोगिणे दुर्बलाय च
निवेद्य गुरवे ऽश्नीयाद् वाग्यतस्तदनुज्ञया
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम्
भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत्
भैक्ष्यस्य चरणं प्रोक्तं पतितादिषु वर्जितम्
ब्रह्मचर्याहरेद् भैक्षं गृहेभ्यः प्रयतो ऽन्वहम्
अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत्
नियम्य प्रयतो वाचं दिशस्त्वनवलोकयन्
भुञ्जीत प्रयतो नित्यं वाग्यतो ऽनन्यमानसः
भैक्ष्येण व्रतिनो वृत्तिरुपवाससमा स्मृता
दृष्ट्वा हृष्येत् प्रसीदेच्च प्रतिनन्देच्च सर्वशः
अपुण्यं लोकविद्विष्टं तस्मात् तत्परिवर्जयेत्
नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः