एवंविधानि चान्यानि न दैवाद्येषु कर्मसु
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु
वर्णज्येष्ठः पितृव्यश्च पुंसो ऽत्र गुरवः स्मृताः
श्वश्रूः पितामहीज्येष्ठा धात्री च गुरवः स्त्रियः
अनुवर्तनमेतेषां मनोवाक्कायकर्मभिः
नैतैरुपविशेत् सार्धं विवदेन्नात्मकारणात्
उदितो ऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः
तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता
ज्येष्ठो भ्राता च भर्ता च पञ्चैते गुरवः स्मृताः
पूजनीया विशेषेण पञ्चैते भूतिमिच्छता
तावत् सर्वं परित्यज्य पुत्रः स्यात् तत्परायणः
स पुत्रः सकलं धर्ममाप्नुयात् तेन कर्मणा
तयोः प्रत्युपकारो ऽपि न कथञ्चन विद्यते
न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत्
धर्मसारः समुद्दिष्टः प्रेत्यानन्तफलप्रदः
शिष्यो विद्याफलं भुङ्क्ते प्रेत्य चापद्यते दिवि
तेन दोषेण स प्रेत्य निरयं घोरमृच्छति
याति दातरि लोके ऽस्मिन् उपकाराद्धि गौरवम्
तेषामथाक्षयांल्लोकान् प्रोवाच भगवान् मनुः
असावहमिति ब्रूयुः प्रत्युत्थाय यवीयसः
भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित्
ब्राह्मणः क्षत्रियाद्यैश्च श्रीकामैः सादरं सदा
ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः
सवर्णेषु सवर्णानां कार्यमेवाभिवादनम्
पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः
मान्यस्थानानि पञ्चाहुः पूर्वं पूर्वं गुरूत्तरात्
यत्र स्युः सो ऽत्र मानार्हः शूद्रो ऽपि दशमीं गतः
वृद्धाय भारबुग्नाय रोगिणे दुर्बलाय च
निवेद्य गुरवे ऽश्नीयाद् वाग्यतस्तदनुज्ञया
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम्