तद्वदाखिललोकानां रक्षणं धर्मसंग्रहम्
पृष्टेन मुनिभिः पूर्वं शक्रेणामृतमन्थने
मुनीनां भाषितं कृष्णः प्रोवाच सुसमाहितः
सनत्कुमारप्रमुखैः सर्वपापैः प्रमुच्यते
यो वा विचारयेदर्थं स याति परमां गतिम्
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते
श्रोतव्यश्चाथ मन्तव्यो विशेषाद् ब्राह्मणैः सदा
कर्मयोगं ब्राह्मणानामात्यन्तिकफलप्रदम्
ऋषीणां शृण्वतां पूर्वं मनुराह प्रजापतिः
समाहितधियो यूयं शृणुध्वं गदतो मम
गर्भाष्टमे ऽष्टमे वाब्दे स्वसूत्रोक्तविधानतः
भिक्षाहारो गुरुहितो वीक्षमाणो गुरुर्मुखम्
ब्राह्मणानां त्रिवित् सूत्रं कौशं वा वस्त्रमेव वा
अन्यथा यत् कृतं कर्म तद् भवत्ययथाकृतम्
तदेव परिधानीयं शुक्लमच्छिद्रमुत्तमम्
अभावे गव्यमजिनं रौरवं वा विधीयते
उपवीतं भवेन्नित्यं निवीतं कण्ठसज्जने
प्राचीनावीतमित्युक्तं पित्र्ये कर्मणि योजयेत्
स्वाध्याये भोजने नित्यं ब्राह्मणानां च सन्निधौ
उपवीती भवेन्नित्यं विधिरेष सनातनः
मुञ्जाभावे कुशेनाहुर्ग्रन्थिनैकेन वा त्रिभिः
यज्ञार्हवृक्षजं वाथ सौम्यमव्रणमेव च
कामाल्लोभाद् भयान्मोहात् त्यक्तेन पतितो भवेत्
स्नात्वा संतर्पयेद् देवानृषीन् पितृगणांस्तथा
अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतः
आयुरारोग्यसिद्ध्यर्थं तन्द्रादिपरिवर्जितः
अकारश्चास्य नाम्नो ऽन्ते वाच्यः पूर्वाक्षरः प्लुतः
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः
आददीत यतो ज्ञानं तं पूर्वमभिवादयेत्