पुरुषाय पुराणाय शाश्वताय जयाय च
नमो हिरण्यगर्भाय वेधसे परमात्मने
नारायणाय देवाय देवानां हितकारिणे
सर्वभूतात्मभूताय कूटस्थाय नमो नमः
नमो बुद्धाय शुद्धाय नमस्ते ज्ञानरूपिणे
अनन्तायाप्रमेयाय कार्याय करणाय च
नमो मूलप्रकृतये मायारूपाय ते नमः
नमो योगाधिगम्याय नमः सकर्षणाय ते
नमः सिद्धाय पूज्याय गुणत्रयविभाविने
नमो ऽमूर्ताय मूर्ताय माधवाय नमो नमः
पालयैतज्जगत् सर्वं त्राता त्वं शरणं गति
प्रसादमकरोत् तेषां वराहवपुरीश्वरः
मुमोच रूपं मनसा धारयित्वा प्रिजापतिः
विततत्वाच्च देहस्य न मही याति संप्लवम्
प्राक्सर्गदग्धानखिलांस्ततः सर्गे ऽदधन्मनः
अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः
संवृतस्तमसा चैव बीजकम्भुवनावृतः
मुक्या नगा इति प्रोक्ता मुख्यसर्गस्तु स स्मृतः
तस्याभिध्यायतः सर्गस्तिर्यक्स्त्रोतो ऽभ्यवर्तत
पश्वादयस्ते विख्याता उत्पथग्राहिणो द्विजाः
ऊर्ध्वस्त्रोत इति प्रोक्तो देवसर्गस्तु सात्त्विकः
प्रकाशा बहिरन्तश्च स्वभावाद् देवसंज्ञिताः
प्रादुरासीत् तदाव्यक्तादर्वाक्स्त्रोतस्तु साधकः
दुः खोत्कटाः सत्त्वयुता मनुष्याः परिकीर्तिता
तस्याभिध्यायतः सर्गं सर्गो भूतादिको ऽभवत्
इत्येते पञ्च कथिताः सर्गा वै द्विजपुङ्गवाः
तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः
इत्येष प्राकृतः सर्गः संभूतो ऽबुद्धिपूर्वकः
तिर्यक्स्त्रोतस्तु यः प्रोक्तस्तिर्यग्योन्यः स पञ्चमः