उपदेक्ष्यन्ति भक्तानां सर्वेषां वचनान्मम
नान्तरं ये प्रपश्यन्ति तेषां देयमिदं परम्
सर्वभूतात्मभूतस्था शान्ता चाक्षरसंज्ञिता
न ते मां संप्रपश्यन्ति जायन्ते च पुनः पुनः
एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः
मामेव संप्रपश्यध्वं पूजयध्वं तथैव हि
ते यान्ति नरकान् घोरान् नाहं तेषुव्यवस्थितः
मोचयामि श्वपाकं वा न नारायणनिन्दकम्
अर्चनीयो नमस्कार्यो मत्प्रीतिजननाय हि
अन्तर्हितो ऽभवत् तेषां सर्वेषामेव पश्यताम्
जग्राह योगिनः सर्वांस्त्यक्त्वा वै परमं वपुः
साक्षादेव महेशस्य ज्ञानं संसारनाशनम्
प्रवर्तयध्वं शिष्येभ्यो धार्मिकेभ्यो मुनीश्वराः
विज्ञानमैश्वरं देयं ब्राह्मणाय विशेषतः
नारायणो महायोगी जगामादर्शनं स्वयम्
नारायणं च भूतादिं स्वानि स्थानानि भेजिरे
दत्तवानैश्वरं ज्ञानं सो ऽपि सत्यव्रताय तु
प्रददौ गौतमायाथ पुलहो ऽपि प्रजापतिः
जैगीषव्याय कपिलस्तथा पञ्चशिखाय च
लेभेतत्परमं ज्ञानं तस्माद् वाल्मीकिराप्तवान्
वामदेवो महायोगी रुद्रः किल पिनाकधृक्
अर्जुनाय स्वयं साक्षात् दत्तवानिदमुत्तमम्
विशेषाद् गिरिशे भक्तिस्तस्मादारभ्य मे ऽभवत्
भूतेशं गिरशं स्थाणुं देवदेवं त्रिशूलिनम्
प्रपद्यध्वं सपत्नीकाः सपुत्राः शरणं शिवम्
पूजयध्वं महादेवं गोपतिं भूतिभूषणम्
प्रणेमुः शाश्वतं स्थाणुं व्यासं सत्यवतीसुतम्
साक्षादेव हृषीकेशं सर्वलोकमहेश्वरम्
इदानीं जायते भक्तिर्या देवैरपि दुर्लभा
येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः