एकाकी यतचित्तात्मा स याति परमं पदम्
सो ऽपीश्वरप्रसादेन याति तत् परमं पदम्
ददाति तत् परं ज्ञानं येन मुच्येत बन्धनात्
तेनैव जन्मना ज्ञानं लब्ध्वा याति शिवं पदम्
सर्वे तरन्ति संसारमीश्वरानुग्रहाद् द्विजाः
धर्मं समाश्रयेत् तस्मान्मुक्तये नियतं द्विजाः
धार्मिकायैव दातव्यं भक्ताय ब्रह्मचारिणे
व्याजहार समासीनं नारायणमनामयम्
दातव्यं शान्तचित्तेभ्यः शिष्येभ्यो भवता शिवम्
हिताय सर्वभक्तानां द्विजातीनां द्विजोत्तमाः
उपदेक्ष्यन्ति भक्तानां सर्वेषां वचनान्मम
नान्तरं ये प्रपश्यन्ति तेषां देयमिदं परम्
सर्वभूतात्मभूतस्था शान्ता चाक्षरसंज्ञिता
न ते मां संप्रपश्यन्ति जायन्ते च पुनः पुनः
एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः
मामेव संप्रपश्यध्वं पूजयध्वं तथैव हि
ते यान्ति नरकान् घोरान् नाहं तेषुव्यवस्थितः
मोचयामि श्वपाकं वा न नारायणनिन्दकम्
अर्चनीयो नमस्कार्यो मत्प्रीतिजननाय हि
अन्तर्हितो ऽभवत् तेषां सर्वेषामेव पश्यताम्
जग्राह योगिनः सर्वांस्त्यक्त्वा वै परमं वपुः
साक्षादेव महेशस्य ज्ञानं संसारनाशनम्
प्रवर्तयध्वं शिष्येभ्यो धार्मिकेभ्यो मुनीश्वराः
विज्ञानमैश्वरं देयं ब्राह्मणाय विशेषतः
नारायणो महायोगी जगामादर्शनं स्वयम्
नारायणं च भूतादिं स्वानि स्थानानि भेजिरे
दत्तवानैश्वरं ज्ञानं सो ऽपि सत्यव्रताय तु
प्रददौ गौतमायाथ पुलहो ऽपि प्रजापतिः
जैगीषव्याय कपिलस्तथा पञ्चशिखाय च
लेभेतत्परमं ज्ञानं तस्माद् वाल्मीकिराप्तवान्