मद्भावनासमायुक्ता मुच्यन्ते ते ऽपि भावतः
मामेव संश्रयेदीशं स याति परमं पदम्
यजेच्चामरणाल्लिङ्गे विरक्तः परमेश्वरम्
एकेन जन्मना तेषां ददामि परमैश्वरम्
ज्ञानात्मकं सर्वगतं योगिनां हृदि संस्थितम्
यत्र क्वचन तल्लिङ्गमर्चयन्ति महेश्वरम्
रत्नादौ भावयित्वेशमर्चयेल्लिङ्गमैश्वरम्
तस्माल्लिङ्गे ऽर्चयेदीशं यत्र क्वचन शाश्वतम्
काष्ठादिष्वेव मूर्खाणां हृदि लिङ्गन्तुयोगिनाम्
यावज्जीवं जपेद् युक्तः प्रणवं ब्रह्मणो वपुः
एकाकी यतचित्तात्मा स याति परमं पदम्
सो ऽपीश्वरप्रसादेन याति तत् परमं पदम्
ददाति तत् परं ज्ञानं येन मुच्येत बन्धनात्
तेनैव जन्मना ज्ञानं लब्ध्वा याति शिवं पदम्
सर्वे तरन्ति संसारमीश्वरानुग्रहाद् द्विजाः
धर्मं समाश्रयेत् तस्मान्मुक्तये नियतं द्विजाः
धार्मिकायैव दातव्यं भक्ताय ब्रह्मचारिणे
व्याजहार समासीनं नारायणमनामयम्
दातव्यं शान्तचित्तेभ्यः शिष्येभ्यो भवता शिवम्
हिताय सर्वभक्तानां द्विजातीनां द्विजोत्तमाः
उपदेक्ष्यन्ति भक्तानां सर्वेषां वचनान्मम
नान्तरं ये प्रपश्यन्ति तेषां देयमिदं परम्
सर्वभूतात्मभूतस्था शान्ता चाक्षरसंज्ञिता
न ते मां संप्रपश्यन्ति जायन्ते च पुनः पुनः
एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः
मामेव संप्रपश्यध्वं पूजयध्वं तथैव हि
ते यान्ति नरकान् घोरान् नाहं तेषुव्यवस्थितः
मोचयामि श्वपाकं वा न नारायणनिन्दकम्
अर्चनीयो नमस्कार्यो मत्प्रीतिजननाय हि
अन्तर्हितो ऽभवत् तेषां सर्वेषामेव पश्यताम्