तस्मादात्मगुणोपेतो मद्व्रतं वोढुमर्हति
बहवो ऽनेन योगेन पूता मद्भावमागताः
ज्ञानयोगेन मां तस्माद् यजेत परमेश्वरम्
चेतसा बोधयुक्तेन पूजयेन्मां सदा शुचिः
प्राप्नोति मम सायुज्यं गुह्यमेतन्मयोदितम्
निर्ममो निरहङ्कारो यो मद्भक्तः स मे प्रियः
मय्यर्पितमनो बुद्धिर्यो मद्भक्तः स मे प्रियः
हर्षामर्षभयोद्वेगैर्मुक्तो यः स हि मे प्रियः
सर्वारम्भपरित्यागी भक्तिमान् यः स मे प्रियः
अनिकेतः स्थिरमतिर्मद्भक्तो मामुपैष्यति
मत्प्रसादादवाप्नोति शाश्वतं परमं पदम्
निराशीर्निर्ममो भूत्वा मामेकं शरणं व्रजेत्
कर्मण्यभिप्रवृत्तो ऽपि नैव तेन निबध्यते
शारीरं केवलं कर्म कुर्वन्नाप्नोति तत्पदम्
कुर्वतो मत्प्रसादार्थं कर्म संसारनाशनम्
मामुपैष्यति योगीशं ज्ञात्वा मां परमेश्वरम्
कथयन्तश्च मां नित्यं मम सायुज्यमाप्नुयुः
नाशयामि तमः कृत्स्नं ज्ञानदीपेन भास्वता
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्
तेषां तदन्तं विज्ञेयं देवतानुगतं फलम्
मद्भावनासमायुक्ता मुच्यन्ते ते ऽपि भावतः
मामेव संश्रयेदीशं स याति परमं पदम्
यजेच्चामरणाल्लिङ्गे विरक्तः परमेश्वरम्
एकेन जन्मना तेषां ददामि परमैश्वरम्
ज्ञानात्मकं सर्वगतं योगिनां हृदि संस्थितम्
यत्र क्वचन तल्लिङ्गमर्चयन्ति महेश्वरम्
रत्नादौ भावयित्वेशमर्चयेल्लिङ्गमैश्वरम्
तस्माल्लिङ्गे ऽर्चयेदीशं यत्र क्वचन शाश्वतम्
काष्ठादिष्वेव मूर्खाणां हृदि लिङ्गन्तुयोगिनाम्
यावज्जीवं जपेद् युक्तः प्रणवं ब्रह्मणो वपुः