वृत्त्यन्तरैरसंसृष्टा तद्ध्यानं सूरयो विदुः
प्रत्ययो ह्यर्थमात्रेण योगसाधनमुत्तमम्
ध्यानं द्वादशकं यावत् समाधिरभिधीयते
साधनानां च सर्वेषामेतत्साधनमुत्तमम्
समासीतात्मनः पद्ममेतदासनमुत्तमम्
आसीतार्धासनमिदं योगसाधनमुत्तमम्
समासीतात्मनः प्रोक्तमासनं स्वस्तिकं परम्
अग्न्यभ्यासे जले वापि शुष्कपर्णचये तथा
सशब्दे सभये वापि चैत्यवल्मीकसंचये
नाचरेद् देहबाधे वा दौर्मनस्यादिसंभवे
नद्यास्तीरे पुण्यदेशे देवतायतने तथा
युञ्जीत योगी सततमात्मानं मत्परायणः
गुरुं चैवाथ मां योगी युञ्जीत सुसमाहितः
नासिकाग्रे समां दृष्टिमीषदुन्मीलितेक्षणः
स्वात्मन्यवस्थितं देवं चिन्तयेत् परमेश्वरम्
धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम्
चिन्तयेत् परमं कोशं कर्णिकायां हिरण्मयम्
ओङ्कारवाच्यमव्यक्तं रश्मिजालसमाकुलम्
तस्मिन् ज्योतिषि विन्यस्यस्वात्मानं तदभेदतः
तदात्मा सर्वगो भूत्वा न किञ्चिदपि चिन्तयेत्
चिन्तयित्वा तु पूर्वोक्तं हृदये पद्ममुत्तमम्
मध्ये वह्निशिखाकारं पुरुषं पञ्चविंशकम्
ओङ्करबोधितं तत्त्वं शाश्वतं शिवमच्युतम्
तदन्तः परमं तत्त्वमात्माधारं निरञ्जनम्
विशोध्य सर्वतत्त्वानि प्रणवेनाथवा पुनः
प्लावयित्वात्मनो देहं तेनैव ज्ञानवारिणा
चिन्तयेत् स्वात्मनीशानं परं ज्योतिः स्वरूपिणम्
सर्ववेदान्तसारो ऽयमत्याश्रममिति श्रुतिः
द्विजातीनां तु कथितं भक्तानां ब्रह्मचारिणाम्
संतोषः सत्यमास्तिक्यं व्रताङ्गानि विशेषतः