शान्तवातादिकं सर्वं न प्रज्ञायत किञ्चन
तदा समभवद् ब्रह्मा सहस्त्राक्षः सहस्त्रपात्
ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा
ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम्
अयनं तस्य ता यस्मात् तेन नारायणः स्मृतः
शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात्
अनुमानात् तदुद्धारं कर्तुकामः प्रजापतिः
अधृष्यं मनसाप्यन्यैर्वाङ्मयं ब्रह्मसंज्ञितम्
दंष्ट्रयाभ्युज्जहारैनामात्माधारो धराधरः
अस्तुवञ्जनलोकस्थाः सिद्धा ब्रह्मर्षयो हरिम्
पुरुषाय पुराणाय शाश्वताय जयाय च
नमो हिरण्यगर्भाय वेधसे परमात्मने
नारायणाय देवाय देवानां हितकारिणे
सर्वभूतात्मभूताय कूटस्थाय नमो नमः
नमो बुद्धाय शुद्धाय नमस्ते ज्ञानरूपिणे
अनन्तायाप्रमेयाय कार्याय करणाय च
नमो मूलप्रकृतये मायारूपाय ते नमः
नमो योगाधिगम्याय नमः सकर्षणाय ते
नमः सिद्धाय पूज्याय गुणत्रयविभाविने
नमो ऽमूर्ताय मूर्ताय माधवाय नमो नमः
पालयैतज्जगत् सर्वं त्राता त्वं शरणं गति
प्रसादमकरोत् तेषां वराहवपुरीश्वरः
मुमोच रूपं मनसा धारयित्वा प्रिजापतिः
विततत्वाच्च देहस्य न मही याति संप्लवम्
प्राक्सर्गदग्धानखिलांस्ततः सर्गे ऽदधन्मनः
अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः
संवृतस्तमसा चैव बीजकम्भुवनावृतः
मुक्या नगा इति प्रोक्ता मुख्यसर्गस्तु स स्मृतः
तस्याभिध्यायतः सर्गस्तिर्यक्स्त्रोतो ऽभ्यवर्तत