न ते पश्यन्ति मामेकं योगिनो यतमानसाः
समाधिश्च मुनिश्रेष्ठा यमो नियम आसनम्
तत्साधनान्यष्टधा तु युष्माकं कथितानि तु
यमाः संक्षेपतः प्रोक्ताश्चित्तशुद्धिप्रदा नृणाम्
अक्लेशजननं प्रोक्तं त्वहिंसा परमर्षिभिः
विधिना या भवेद्धिंसा त्वहिंसैव प्रकीर्तिता
यथार्थकथनाचारः सत्यं प्रोक्तं द्विजातिभिः
स्तेयं तस्यानाचरणादस्तेयं धर्मसाधनम्
सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते
अपरिग्रह इत्याहुस्तं प्रयत्नेन पालयेत्
समासान्नियमाः प्रोक्ता योगसिद्धिप्रदायिनः
शरीरशोषणं प्राहुस्तापसास्तप उत्तमम्
सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते
उत्तरोत्तरवैशिष्ट्यं प्राहुर्वेदार्थवेदिनः
स्वाध्यायो वाचिकः प्रोक्त उपांशोरथ लक्षणम्
उपांशुरेष निर्दिष्टः साहस्रो वाचिकाज्जपः
चिन्तनं सर्वशब्दानां मानसं तं जपं विदुः
या धीस्तामृषयः प्राहुः संतोषं सुखलक्षणम्
मृज्जलाभ्यां स्मृतं बाह्यं मनःशुद्धिरथान्तरम्
सुनिश्चला शिवे भक्तिरेतदीश्वरपूजनम्
प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम्
स एव द्विविधः प्रोक्तः सगर्भो ऽगर्भ एव च
मध्यमः प्राणसंरोधः षट्त्रिंशन्मात्रिकोत्तमः
मन्दमध्यममुख्यानामानन्दादुत्तमोत्तमः
एतद् वै योगिनामुक्तं प्राणायामस्य लक्षणम्
त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते
प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः
साम्येन संस्थितिर्या सा कुम्भकः परिगीयते
निग्रहः प्रोच्यते सद्भिः प्रत्याहारस्तु सत्तमाः
एवमादिषु देशेषु धारणा चित्तबन्धनम्