युञ्जीत योगं प्रयतो ह्यजस्रम्
येनात्मानं प्रपश्यन्ति भानुमन्तमिवेश्वरम्
प्रसन्नं जायते ज्ञानं साक्षान्निर्वाणसिद्धिदम्
योगज्ञानाभियुक्तस्य प्रसीदति महेश्वरः
ये युञ्जन्तीह मद्योगं ते विज्ञेया महेश्वराः
अपरस्तु महायोगः सर्वयोगोत्तमोत्तमः
अभावयोगः स प्रोक्तो येनात्मानं प्रपश्यति
मयैक्यं स महायोगो भाषितः परमेश्वरः
सर्वे ते ब्रह्मयोगस्य कलां नार्हन्ति षोडशीम्
सर्वेषामेव योगानां स योगः परमो मतः
न ते पश्यन्ति मामेकं योगिनो यतमानसाः
समाधिश्च मुनिश्रेष्ठा यमो नियम आसनम्
तत्साधनान्यष्टधा तु युष्माकं कथितानि तु
यमाः संक्षेपतः प्रोक्ताश्चित्तशुद्धिप्रदा नृणाम्
अक्लेशजननं प्रोक्तं त्वहिंसा परमर्षिभिः
विधिना या भवेद्धिंसा त्वहिंसैव प्रकीर्तिता
यथार्थकथनाचारः सत्यं प्रोक्तं द्विजातिभिः
स्तेयं तस्यानाचरणादस्तेयं धर्मसाधनम्
सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते
अपरिग्रह इत्याहुस्तं प्रयत्नेन पालयेत्
समासान्नियमाः प्रोक्ता योगसिद्धिप्रदायिनः
शरीरशोषणं प्राहुस्तापसास्तप उत्तमम्
सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते
उत्तरोत्तरवैशिष्ट्यं प्राहुर्वेदार्थवेदिनः
स्वाध्यायो वाचिकः प्रोक्त उपांशोरथ लक्षणम्
उपांशुरेष निर्दिष्टः साहस्रो वाचिकाज्जपः
चिन्तनं सर्वशब्दानां मानसं तं जपं विदुः
या धीस्तामृषयः प्राहुः संतोषं सुखलक्षणम्
मृज्जलाभ्यां स्मृतं बाह्यं मनःशुद्धिरथान्तरम्
सुनिश्चला शिवे भक्तिरेतदीश्वरपूजनम्