आश्रिताः परमां निष्ठां बुद्ध्वैकं तत्त्वमव्ययम्
भक्त्या मां संप्रपश्यन्ति विज्ञेयास्ते तदात्मकाः
नित्यानन्दं निर्विकल्पं सत्यरूपमिति स्थितिः
स्वात्मन्यवस्थिताः शान्ताः परे ऽव्यक्ते परस्य तु
निर्वाणं ब्रह्मणा चैक्यं कैवल्यं कवयो विदुः
स ईश्वरो महादेवस्तं विज्ञाय विमुच्यते
तन्नित्यभासमचलं सद्विभाति
पश्यन्ति तत्त्वमचलं यत् स ईशः
धायायन्ति वेदार्थविनिश्चितार्थाः
विभाति देवः शिव एव केवलः
युञ्जीत योगं प्रयतो ह्यजस्रम्
येनात्मानं प्रपश्यन्ति भानुमन्तमिवेश्वरम्
प्रसन्नं जायते ज्ञानं साक्षान्निर्वाणसिद्धिदम्
योगज्ञानाभियुक्तस्य प्रसीदति महेश्वरः
ये युञ्जन्तीह मद्योगं ते विज्ञेया महेश्वराः
अपरस्तु महायोगः सर्वयोगोत्तमोत्तमः
अभावयोगः स प्रोक्तो येनात्मानं प्रपश्यति
मयैक्यं स महायोगो भाषितः परमेश्वरः
सर्वे ते ब्रह्मयोगस्य कलां नार्हन्ति षोडशीम्
सर्वेषामेव योगानां स योगः परमो मतः
न ते पश्यन्ति मामेकं योगिनो यतमानसाः
समाधिश्च मुनिश्रेष्ठा यमो नियम आसनम्
तत्साधनान्यष्टधा तु युष्माकं कथितानि तु
यमाः संक्षेपतः प्रोक्ताश्चित्तशुद्धिप्रदा नृणाम्
अक्लेशजननं प्रोक्तं त्वहिंसा परमर्षिभिः
विधिना या भवेद्धिंसा त्वहिंसैव प्रकीर्तिता
यथार्थकथनाचारः सत्यं प्रोक्तं द्विजातिभिः
स्तेयं तस्यानाचरणादस्तेयं धर्मसाधनम्
सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते
अपरिग्रह इत्याहुस्तं प्रयत्नेन पालयेत्