न्महेश्वरः पुरुषः सत्यरूपः
बीजं विश्वं देव एकः स एव
महादेवः प्रोच्यते वेदविद्भिः
स बुद्धिमान् बुद्धिमतीत्य तिष्ठति
तन्नो वद महादेव विश्वरूपः कथं भवान्
मायानिमित्तमत्रास्ति सा चात्मानमपाश्रिता
तन्निमित्तः प्रपञ्चो ऽयमव्यक्तादभवत् खलु
अहमेव परं ब्रह्म मत्तो ह्यन्यन्न विद्यते
एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्शनम्
अकारणं द्विजाः प्रोक्तो न दोषो ह्यात्मनस्तथा
तस्मिन् दिवि स्थितं नित्यमव्यक्तं भाति केवलम्
एकया मम सायुज्यमनादिनिधनं ध्रुवम्
अनादिमध्यं तिष्ठन्तं युज्यते ऽविद्यया किल
तदक्षरं परं ज्योतिस्तद् विष्णोः परमं पदम्
तदेव च जगत् कृत्स्नं तद् विज्ञाय विमुच्यते
आनन्दं ब्रह्मणो विद्वान् विभेति न कुतश्चन
नित्यानन्दी भवति ब्रह्मभूतः
आत्मानन्दी भवति ब्रह्मभूतः
यत्र गत्वा न निवर्तेत भूयः
विभ्राजमानं विमलं व्योम धाम
ब्रह्मानन्दी भगवानीश एषः
तेषां शान्तिः शाश्वती नेतरेषाम्
सर्वव्यापी च भगवान् न तस्मादन्यदिष्यते
गोपनीयं विशेषेण योगिनामपि दुर्लभम्
स्वयञ्ज्योतिः परं तत्त्वं परे व्योम्नि व्यवस्थितम्
निर्गुणं शुद्धविज्ञानं तद् वै पश्यन्ति सूरयः
पश्यन्ति तत् परं ब्रह्म यत्तल्लिङ्गमिति श्रुतिः
नहि तद् विद्यते ज्ञानं यतस्तज्ज्ञायते परम्
अज्ञानमितरत् सर्वं यस्मान्मायामयं जगत्
ममात्मासौ तदेवेमिति प्राहुर्विपश्चितः