तत्सर्वं प्रतिजानीध्वं मम तेजोविजृम्भितम्
तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः
मामेव मोचकं प्राहुः पशूनां वेदवादिनः
मामृते परमात्मानं भूताधिपतिमव्ययम्
एते पाशाः पशुपतेः क्लेशाश्च पशुबन्धनाः
एताः प्रकृतयस्त्वष्टौ विकाराश्च तथापरे
पायूपस्थं करौ पादौ वाक् चैव दशमी मता
त्रयोविंशतिरेतानि तत्त्वानि प्राकृतानि तु
अनादिमध्यनिधनं कारणं जगतः परम्
साम्यावस्थितिमेतेषामव्यक्तं प्रकृतिं विदुः
गुणानां बुद्धिवैषम्याद् वैषम्यं कवयो विदुः
मय्यर्पितानि कर्माणि निबन्धाय विमुक्तये
क्लेशाख्यानचलान् प्राहुः पाशानात्मनिबन्धनान्
मूलप्रकृतिरव्यक्ता सा शक्तिर्मयि तिष्ठति
विकारा महदादीनि देवदेवः सनातनः
तमाहुरग्र्यं पुरुषं पुराणम्
येनासौ तरते जन्तुर्घोरं संसारसागरम्
एकाकी भगवानुक्तः केवलः परमेश्वरः
मूलं मायाभिधानं तु ततो जातमिदं जगत्
तन्मात्राणि महाभूतानीन्द्रियाणि च जज्ञिरे
तस्मिन् जज्ञे महाब्रह्मा मच्छक्त्या चोपबृंहितः
न मां पश्यन्ति पितरं मायया मम मोहिताः
तासां माया परा योनिर्मामेव पितरं विदुः
स धीरः सर्वलोकेषु न मोहमधिगच्छति
ओङ्कारमूर्तिर्भगवानहं ब्रह्मा प्रजापतिः
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति
न हिनस्त्यात्मनात्मानं ततो याति पराङ्गतिम्
प्रधानविनियोगज्ञः परं ब्रह्माधिगच्छति
षडाहुरङ्गानि महेश्वरस्य
बन्धः प्रोक्तो विनियोगो ऽपि तेन