सापि विद्या महेशस्य नियोगवशवर्तिनी
मयैव प्रेर्यते कृत्स्नं मय्येव प्रलयं व्रजेत्
परमात्मा परं ब्रह्म मत्तो ह्यन्यन्न विद्यते
ज्ञात्वा विमुच्यते जन्तुर्जन्मसंसारबन्धनात्
यं ज्ञात्वा पुरुषो मुक्तो न संसारे पतेत् पुनः
नित्यानन्दं निर्विकल्पं तद्धाम परमं मम
मायाविनामहं देवः पुराणो हरिरव्ययः
आदित्यानामहं विष्णुर्वसूनामस्मि पावकः
ऐरावतो गजेन्द्राणां रामः शस्त्रभृतामहम्
शिल्पिनां विश्वकर्माहं प्रह्लादो ऽस्म्यमरद्विषाम्
वीराणां वीरभद्रो ऽहं सिद्धानां कपिलो मुनिः
वज्रं प्रहरणानां च व्रतानां सत्यमस्म्यहम्
आश्रमाणां च गार्हस्थमीश्वराणां महेश्वरः
कुबेरः सर्वयक्षाणां गणेशानां च वीरकः
वायुर्बलवतामस्मि द्वीपानां पुष्करो ऽस्म्यहम्
वेदानां सामवेदो ऽहं यजुषां शतरुद्रियम्
सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु
ब्रह्मावर्तस्तु देशानां क्षेत्राणामविमुक्तकम्
भूतानामस्म्यहं व्योम सत्त्वानां मृत्युरेव च
गतीनां मुक्तिरेवाहं परेषां परमेश्वरः
तत्सर्वं प्रतिजानीध्वं मम तेजोविजृम्भितम्
तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः
मामेव मोचकं प्राहुः पशूनां वेदवादिनः
मामृते परमात्मानं भूताधिपतिमव्ययम्
एते पाशाः पशुपतेः क्लेशाश्च पशुबन्धनाः
एताः प्रकृतयस्त्वष्टौ विकाराश्च तथापरे
पायूपस्थं करौ पादौ वाक् चैव दशमी मता
त्रयोविंशतिरेतानि तत्त्वानि प्राकृतानि तु
अनादिमध्यनिधनं कारणं जगतः परम्
साम्यावस्थितिमेतेषामव्यक्तं प्रकृतिं विदुः