स्कन्दो ऽसौ वर्तते नित्यं स्वयंभूर्विधिचोदितः
सृजन्ति विविधं लोकं परस्यैव नियोगतः
पत्नी नारायणस्यासौ वर्तते मदनुग्रहात्
सापीश्वरनियोगेन चोदिता संप्रवर्तते
सावित्री संस्मृता देवी देवाज्ञानुविधायिनी
यापि ध्याता विशेषेण सापि मद्वचनानुगा
दधाति शिरसा लोकं सो ऽपि देवनियोगतः
पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः
पालयन्ति प्रजाः सर्वास्ते ऽपि तस्य नियोगतः
अन्याश्च देवताः सर्वा मच्छास्त्रेणैव धिष्ठिताः
यक्षरक्षः पिशाचाश्च स्थिताः शास्त्रे स्वयंभुवः
ऋतवः पक्षमासाश्च स्थिताः शास्त्रे प्रजापतेः
पराश्चैव परार्धाश्च कालभेदास्तथा परे
नियोगादेव वर्तन्ते देवस्य परमात्मनः
ब्रह्माण्डानि च वर्तन्ते सर्वाण्येव स्वयंभुवः
प्रवृत्तानि पदार्थौघैः सहितानि समन्ततः
वहिष्यन्ति सदैवाज्ञां परस्य परमात्मनः
भूतादिरादिप्रकृतिर्नियोगे मम वर्तते
माया विवर्तते नित्यं सापीश्वरनियोगतः
आत्मासौ वर्तते नित्यमीश्वरस्य नियोगतः
सापि विद्या महेशस्य नियोगवशवर्तिनी
मयैव प्रेर्यते कृत्स्नं मय्येव प्रलयं व्रजेत्
परमात्मा परं ब्रह्म मत्तो ह्यन्यन्न विद्यते
ज्ञात्वा विमुच्यते जन्तुर्जन्मसंसारबन्धनात्
यं ज्ञात्वा पुरुषो मुक्तो न संसारे पतेत् पुनः
नित्यानन्दं निर्विकल्पं तद्धाम परमं मम
मायाविनामहं देवः पुराणो हरिरव्ययः
आदित्यानामहं विष्णुर्वसूनामस्मि पावकः
ऐरावतो गजेन्द्राणां रामः शस्त्रभृतामहम्
शिल्पिनां विश्वकर्माहं प्रह्लादो ऽस्म्यमरद्विषाम्