महदादिक्रमेणैव मम तेजो विजृम्भते
हिरण्यगर्भो मार्तण्डः सो ऽपि मद्देहसंभवः
दत्तवानात्मजान् वेदान् कल्पादौ चतुरो द्विजाः
दिव्यं तन्मामकैश्वर्यं सर्वदा वहति स्वयम्
भूत्वा चतुर्मुखः सर्गं सृजत्येवात्मसंभवः
ममैव परमा मूर्तिः करोति परिपालनम्
मदाज्ञयासौ सततं संहरिष्यति मे तनुः
पाकं च कुरुते वह्निः सो ऽपि मच्छक्तिचोदितः
वैश्वानरो ऽग्निर्भगवानीश्वरस्य नियोगतः
सो ऽपि संजीवयेत् कृत्स्नमीशस्यैव नियोगतः
मदाज्ञयासौ भूतानां शरीराणि बिभर्ति हि
सोमः स मन्नियोगेन चोदितः किल वर्तते
सूर्यो वृष्टिं वितनुते शास्त्रेणैव स्वयंभुवः
यज्वनां फलदो देवो वर्तते ऽसौ मदाज्ञया
यमो वैवस्वतो देवो देवदेवनियोगतः
सो ऽपीश्वरनियोगेन कुबेरो वर्तते सदा
मन्नियोगादसौ देवो वर्तते निरृतिः सदा
ईशानः किल भक्तानां सो ऽपि तिष्ठन्ममाज्ञया
रक्षको योगिनां नित्यं वर्तते ऽसौ मदाज्ञया
विनायको धर्मनेता सो ऽपि मद्वचनात् किल
स्कन्दो ऽसौ वर्तते नित्यं स्वयंभूर्विधिचोदितः
सृजन्ति विविधं लोकं परस्यैव नियोगतः
पत्नी नारायणस्यासौ वर्तते मदनुग्रहात्
सापीश्वरनियोगेन चोदिता संप्रवर्तते
सावित्री संस्मृता देवी देवाज्ञानुविधायिनी
यापि ध्याता विशेषेण सापि मद्वचनानुगा
दधाति शिरसा लोकं सो ऽपि देवनियोगतः
पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः
पालयन्ति प्रजाः सर्वास्ते ऽपि तस्य नियोगतः
अन्याश्च देवताः सर्वा मच्छास्त्रेणैव धिष्ठिताः