नृत्यन्तं स्वे हृदये सन्निविष्टम्
योगात्मानं चित्पतिं दिव्यनृत्यम्
ब्रह्मानन्दमनुभूयानुभूय
स्वयंप्रभं भवतो यत्प्रकाशम्
विशन्ति त्वां यतयो ब्रह्मनिष्ठाः
स्तेषां शान्तिः शाश्वती नेतरेषाम्
स्वयं ज्योतिरचलो नित्यमुक्तः
नमामस्त्वां शरणं संप्रपन्नाः
धातारमादित्यमनेकरूपम्
सनातनस्त्वं पुरुषोत्तमो ऽसि
सर्वेश्वरस्त्वं परमेश्वरो ऽसि
खं ब्रह्म शून्यं प्रकृतिं निर्गुणं च
तदन्तरा यत्प्रतिभाति तत्त्वम्
प्रसीद भूताधिपते महेश
प्रसादयामो वयमेकमीशम्
नमो ऽग्नये देव नमः शिवाय
संहृत्य परमं रूपं प्रकृतिस्थो ऽभवद् भवः
दृष्ट्वा नारायणं देवं विस्मिता वाक्यमब्रुवन्
दृष्ट्वा ते परमं रूपं निर्वृताः स्म सनातन
अस्माकं जायते भक्तिस्त्वय्येवाव्यभिचारिणी
भूयो ऽपि तव यन्नित्यं याथात्म्यं परमेष्ठिनः
प्राहः गम्भीरया वाचा समालोक्य च माधवम्
वक्ष्यामीशस्य माहात्म्यं यत्तद्वेदविदो विदुः
सर्वलोकैकसंहर्ता सर्वात्माहं सनातनः
मध्ये चान्तः स्थितं सर्वं नाहं सर्वत्र संस्थितः
ममैषा ह्युपमा विप्रा मायया दर्शिता मया
प्रेरयामि जगत् कृत्स्नं क्रियाशाक्तिरियं मम
सो ऽहं कालो जगत् कृत्स्नं प्रेरयामि कलात्मकम्
संहराम्येकरूपेण द्विधावस्था ममैव तु
क्षोभयामि च सर्गादौ प्रधानपुरुषावुभौ