योगिनां हृदि तिष्ठन्तं योगमायासमावृतम्
ईश्वरेणैकतापन्नमपश्यन् ब्रह्मवादिनः
कृतार्थं मेनिरे सन्तः स्वात्मानं ब्रह्मवादिनः
महर्षिरत्रिः कपिलो मरीचिः
बद्ध्वाञ्जलिं स्वेषु शिरःसु भूयः
आनन्दपूर्णायतमानसास्ते
प्रचेतसं ब्रह्ममयं पवित्रम्
कविं परेभ्यः परमं तत्परं च
स्त्वामेव सर्वं प्रवदन्ति सन्तः
यथाविधानं सकलं ससर्ज
नृत्यन्तं स्वे हृदये सन्निविष्टम्
योगात्मानं चित्पतिं दिव्यनृत्यम्
ब्रह्मानन्दमनुभूयानुभूय
स्वयंप्रभं भवतो यत्प्रकाशम्
विशन्ति त्वां यतयो ब्रह्मनिष्ठाः
स्तेषां शान्तिः शाश्वती नेतरेषाम्
स्वयं ज्योतिरचलो नित्यमुक्तः
नमामस्त्वां शरणं संप्रपन्नाः
धातारमादित्यमनेकरूपम्
सनातनस्त्वं पुरुषोत्तमो ऽसि
सर्वेश्वरस्त्वं परमेश्वरो ऽसि
खं ब्रह्म शून्यं प्रकृतिं निर्गुणं च
तदन्तरा यत्प्रतिभाति तत्त्वम्
प्रसीद भूताधिपते महेश
प्रसादयामो वयमेकमीशम्
नमो ऽग्नये देव नमः शिवाय
संहृत्य परमं रूपं प्रकृतिस्थो ऽभवद् भवः
दृष्ट्वा नारायणं देवं विस्मिता वाक्यमब्रुवन्
दृष्ट्वा ते परमं रूपं निर्वृताः स्म सनातन
अस्माकं जायते भक्तिस्त्वय्येवाव्यभिचारिणी