काष्ठास्त्रिंशत् कला त्रिंशत् कला मौहूर्तिकी गतिः
अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः
अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम्
चतुर्युगं द्वादशभिः तद्विभागं निबोधत
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च कृतस्य तु
अंशकं षट्शतं तस्मात् कृसन्ध्यांशकं विना
त्रेताद्वापरतिष्याणां कालज्ञाने प्रकीर्तितम्
तदेकसप्ततिगुणं मनोरन्तरमुच्यते
स्वायंभुवादयः सर्वे ततः सावर्णिकादयः
पूर्णं युगसहस्त्रं वै परिपाल्या नरेश्वरैः
व्याख्यातानि न संदेहः कल्पं कल्पेन चैव हि
चतुर्युगसहस्त्रं तु कल्पमाहुर्मनीषिणः
ब्रह्मणः कथितं वर्षं पराख्यं तच्छतं विदुः
तेनायं प्रोच्यते सद्भिः प्राकृतः प्रतिसंचरः
प्रोच्यते कालयोगेन पुनरेव च संभवः
कालेनैव तु सृज्यन्ते स एव ग्रसते पुनः
सर्वगत्वात् स्वतन्त्रत्वात् सर्वात्मासौ महेश्वरः
एको हि भगवानीशः कालः कविरिति श्रुति
सांप्रतं वर्तते तद्वत् तस्य कल्पो ऽयमष्टमः
वाराहो वर्तते कल्पः तस्य वक्ष्यामि विस्तरम्
शान्तवातादिकं सर्वं न प्रज्ञायत किञ्चन
तदा समभवद् ब्रह्मा सहस्त्राक्षः सहस्त्रपात्
ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा
ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम्
अयनं तस्य ता यस्मात् तेन नारायणः स्मृतः
शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात्
अनुमानात् तदुद्धारं कर्तुकामः प्रजापतिः
अधृष्यं मनसाप्यन्यैर्वाङ्मयं ब्रह्मसंज्ञितम्
दंष्ट्रयाभ्युज्जहारैनामात्माधारो धराधरः
अस्तुवञ्जनलोकस्थाः सिद्धा ब्रह्मर्षयो हरिम्