योगेश्वरो ऽसौ भगवान् महादेवो महान् प्रभुः
प्रोच्यते भगवान् ब्रह्मा महान् ब्रह्ममयो ऽमलः
सो ऽविकल्पेन योगेन युज्यते नात्र संशयः
नृत्यामि योगी सततं यस्तद् वेद स वेदवित्
प्रसन्नचेतसे देयं धार्मिकायाहिताग्नये
ननर्त परमं भावमैश्वरं संप्रदर्शयन्
नृत्यमानं महादेवं विष्णुना गगने ऽमले
तमीशं सर्वभूतानामाकशे ददृशुः किल
नृत्यमानः स्वयं विप्रैर्विश्वेशः खलु दृश्यते
जहति नृत्यमानं तं भूतेशं ददृशुः किल
ज्योतिर्मयं प्रपश्यन्ति स योगी दृश्यते किल
तमेव मोचकं रुद्रमाकाशे ददृशुः परम्
सहस्रबाहुं जटिलं चन्द्रार्धकृतशेखरम्
दण्डपाणिं त्रयीनेत्रं सूर्यसोमाग्निलोचनम्
दंष्ट्राकरालं दुर्धर्षं सूर्यकोटिसमप्रभम्
नृत्यन्तं ददृशुर्देवं विश्वकर्माणमीश्वरम्
पशूनां पतिमीशानं ज्योतिषां ज्योतिरव्ययम्
कालात्मानं कालकालं देवदेवं महेश्वरम्
ज्ञानवैराग्यनिलयं ज्ञानयोगं सनातनम्
महेन्द्रोपेन्द्रनमितं महर्षिगणवन्दितम्
योगिनां हृदि तिष्ठन्तं योगमायासमावृतम्
ईश्वरेणैकतापन्नमपश्यन् ब्रह्मवादिनः
कृतार्थं मेनिरे सन्तः स्वात्मानं ब्रह्मवादिनः
महर्षिरत्रिः कपिलो मरीचिः
बद्ध्वाञ्जलिं स्वेषु शिरःसु भूयः
आनन्दपूर्णायतमानसास्ते
प्रचेतसं ब्रह्ममयं पवित्रम्
कविं परेभ्यः परमं तत्परं च
स्त्वामेव सर्वं प्रवदन्ति सन्तः
यथाविधानं सकलं ससर्ज