नियोजयत्यनन्तात्मा ह्येतद् वेदानुशासनम्
माहात्म्यं देवदेवस्य येनेदं संप्रवर्तते
शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम्
मां सर्वसाक्षिणं लोको न जानाति मुनीश्वराः
सो ऽहन्धाता विधाता च कालो ऽग्निर्विश्वतोमुखः
ब्रह्मा च मनवः शक्रो ये चान्ये प्रथितौजसः
यजन्ति विविधैरग्निं ब्राह्मणा वैदिकैर्मखैः
ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम्
सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसंस्थितः
तेषां सन्निहितो नित्यं ये भक्त्या मामुपासते
तेषां ददामि तत् स्थानमानन्दं परमं पदम्
भक्तिमन्तः प्रमुच्यन्ते कालेन मयि संगताः
आदावेतत् प्रतिज्ञातं न मे भक्तः प्रणश्यति
यो हि तं पूजयेद् भक्त्या स पूजयति मां सदा
यो मे ददाति नियतः स मे भक्तः प्रियो मतः
विधाय दत्तवान् वेदानशेषानात्मनिः सृतान्
धार्मिकाणां च गोप्ताहं निहन्ता वेदविद्विषाम्
संसारहेतुरेवाहं सर्वसंसारवर्जितः
मायावी मामीका शक्तिर्माया लोकविमोहिनी
नाशयामि तया मायां योगिनां हृदि संस्थितः
आधारभूतः सर्वासां निधानममृतस्य च
आस्थाय ब्रह्माणो रूपं मन्मयी मदधिष्ठिता
भूत्वा नारायणो ऽनन्तो जगन्नाथो जगन्मयः
तामसी मे समाख्याता कालाख्या रुद्ररूपिणी
अपरे भक्तियोगेन कर्मयोगेन चापरे
यो हि ज्ञानेन मां नित्यमाराधयति नान्यथा
ते ऽपि मां प्राप्नुवन्त्येव नावर्तन्ते च वै पुनः
मय्येव संस्थितं विश्वं मया संप्रेर्यते जगत्
प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सो ऽमृतः
करोति कालो भगवान् महायोगेश्वरः स्वयम्