प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः
निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम्
वक्ष्ये समाहिता यूयं शृणुध्वं ब्रह्मवादिनः
प्रेरयामि तथापीदं कारणं सूरयो विदुः
प्रविष्टा मम सायुज्यं लभन्ते योगिनो ऽव्ययम्
लभन्ते परमां शुद्धिं निर्वाणं ते मया सह
प्रसादान्मम योगीन्द्रा एतद् वेदानुशासनम्
मदुक्तमेतद् विज्ञानं सांख्ययोगसमाश्रयम्
तेभ्यः सर्वमिदं जातं तस्माद् ब्रह्ममयं जगत्
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति
सर्वाधारं सदानन्दमव्यक्तं द्वैतवर्जितम्
निर्विकल्पं निराभासं सर्वावासं परामृतम्
निर्गुणं परमं व्योम तज्ज्ञानं सूरयो विदुः
सो ऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः
मत्स्थानि सर्वभूतानि यस्तं वेद स वेदवित्
तयोरनादिरुद्दिष्टः कालः संयोजकः परः
तदात्मकं तदन्यत् स्यात् तद्रूपं मामकं विदुः
या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम्
अहङ्कारविमुक्तत्वात् प्रोच्यते पञ्चविंशकः
विज्ञानशक्तिर्विज्ञाता ह्यहङ्कारस्तदुत्थितः
स जीवः सो ऽन्तरात्मेति गीयते तत्त्वचिन्तकैः
स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम्
स चाविवेकः प्रकृतौ सङ्गात् कालेन सो ऽभवत्
सर्वे कालस्य वशगा न कालः कस्यचिद् वशे
प्रोच्यते भगवान् प्राणः सर्वज्ञः पुरुषोत्तमः
मनसश्चाप्यहङ्कारमहङ्कारान्महान् परः
पुरुषाद् भगवान् प्राणस्तस्य सर्वमिदं जगत्
नास्ति मत्तः परं भूतं मां विज्ञाय विमुच्यते
ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम्
मायी मायामयो देवः कालेन सह सङ्गतः