रक्तिकाद्युपधानेन तद्वत् परमपूरुषः
उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः
योगिनो ऽव्यवधानेन तदा संपद्यते स्वयम्
सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा
एकीभूतः परेणासौ तदा भवति केवलः
तदासावमृतीभूतः क्षेमं गच्छति पण्डितः
तत एव च विस्तारं ब्रह्म संपद्यते तदा
मायामात्रं जगत् कृत्स्नं तदा भवति निर्वृतः
केवलं ब्रह्मविज्ञानं जायते ऽसौ तदा शिवः
तद्वदात्माक्षरेणासौ निष्कलेनैकतां व्रजेत्
अज्ञानेनावृतं लोको विज्ञानं तेन मुह्यति
अज्ञानमितरत् सर्वं विज्ञानमिति मे मतम्
सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता
योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित्
एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित्
मज्जन्ति तत्र तत्रैव न त्वात्मैषामिति श्रुतिः
ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात्
कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः
सर्वतः पाणिपादो ऽहमन्तर्यामी सनातनः
अचक्षुरपि पश्यामि तथाकर्णः शृणोम्यहम्
प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः
निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम्
वक्ष्ये समाहिता यूयं शृणुध्वं ब्रह्मवादिनः
प्रेरयामि तथापीदं कारणं सूरयो विदुः
प्रविष्टा मम सायुज्यं लभन्ते योगिनो ऽव्ययम्
लभन्ते परमां शुद्धिं निर्वाणं ते मया सह
प्रसादान्मम योगीन्द्रा एतद् वेदानुशासनम्
मदुक्तमेतद् विज्ञानं सांख्ययोगसमाश्रयम्
तेभ्यः सर्वमिदं जातं तस्माद् ब्रह्ममयं जगत्
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति