प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः
स्वात्मानमक्षरं ब्रह्म नावबुद्ध्येत तत्त्वतः
रगद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः
तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः
एकः स भिद्यते शक्त्या मायया न स्वभावतः
भेदो व्यक्तस्वभावेन सा च मायात्मसंश्रया
अन्तः करणजैर्भावैरात्मा तद्वन्न लिप्यते
उपाधिहीनो विमलस्तथैवात्मा प्रकाशते
अर्थस्वरूपमेवाज्ञाः पश्यन्त्यन्ये कुदृष्टयः
दृश्यते ह्यर्थरूपेण पुरुषैर्भ्रान्तिदृष्टिभिः
रक्तिकाद्युपधानेन तद्वत् परमपूरुषः
उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः
योगिनो ऽव्यवधानेन तदा संपद्यते स्वयम्
सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा
एकीभूतः परेणासौ तदा भवति केवलः
तदासावमृतीभूतः क्षेमं गच्छति पण्डितः
तत एव च विस्तारं ब्रह्म संपद्यते तदा
मायामात्रं जगत् कृत्स्नं तदा भवति निर्वृतः
केवलं ब्रह्मविज्ञानं जायते ऽसौ तदा शिवः
तद्वदात्माक्षरेणासौ निष्कलेनैकतां व्रजेत्
अज्ञानेनावृतं लोको विज्ञानं तेन मुह्यति
अज्ञानमितरत् सर्वं विज्ञानमिति मे मतम्
सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता
योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित्
एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित्
मज्जन्ति तत्र तत्रैव न त्वात्मैषामिति श्रुतिः
ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात्
कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः
सर्वतः पाणिपादो ऽहमन्तर्यामी सनातनः
अचक्षुरपि पश्यामि तथाकर्णः शृणोम्यहम्