स वासुदेवमासीनं तमीशं ददृशुः किल
निरीक्ष्य पुण्डरीकाक्षं स्वात्मयोगमनुत्तमम्
प्रशान्तमानसाः सर्वे ज्ञानमीश्वरभाषितम्
यन्न देवा विजानन्ति यतन्तो ऽपि द्विजातयः
न संसारं प्रपद्यन्ते पूर्वे ऽपि ब्रह्मवादिनः
वक्ष्ये भक्तिमतामद्य युष्माकं ब्रह्मवादिनाम्
अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः
स कालो ऽग्निस्तदव्यक्तं स एवेदमिति श्रुतिः
स मायी मायया बद्धः करोति विविधास्तनूः
नायं पृथ्वी न सलिलं न तेजः पवनो नभः
न रूपरसगन्धाश्च नाहं कर्ता न वागपि
न माया नैव च प्राश्चैतन्यं परमार्थतः
तद्वदैक्यं न संबन्धः प्रपञ्चपरमात्मनोः
तद्वत् प्रपञ्चपुरुषौ विभिन्नौ परमार्थतः
नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि
विकारहीनं निर्दुः खमानन्दात्मानमव्ययम्
सा चाहङ्कारकर्तृत्वादात्मन्यारोप्यते जनैः
भोक्तारमक्षरं शुद्धं सर्वत्र समवस्थितम्
अज्ञानादन्यथा ज्ञानं तच्च प्रकृतिसंगतम्
अहङ्काराविवेकेन कर्ताहमिति मन्यते
प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः
स्वात्मानमक्षरं ब्रह्म नावबुद्ध्येत तत्त्वतः
रगद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः
तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः
एकः स भिद्यते शक्त्या मायया न स्वभावतः
भेदो व्यक्तस्वभावेन सा च मायात्मसंश्रया
अन्तः करणजैर्भावैरात्मा तद्वन्न लिप्यते
उपाधिहीनो विमलस्तथैवात्मा प्रकाशते
अर्थस्वरूपमेवाज्ञाः पश्यन्त्यन्ये कुदृष्टयः
दृश्यते ह्यर्थरूपेण पुरुषैर्भ्रान्तिदृष्टिभिः