ततस्त्वमात्मनात्मानं मुनीन्द्रेभ्यः प्रदर्शय
प्रदर्शयन् योगसिद्धिं निरीक्ष्य वृषभध्वजम्
कृतार्थं स्वयमात्मानं ज्ञातुमर्हथ तत्त्वतः
ममैव सन्निधावेष यथावद् वक्तुमीश्वरः
सनत्कुमारप्रमुखाः पृच्छन्ति स्म महेश्वरम्
किमप्यचिन्त्यं गगनादीश्वरार्हं समुद्बभौ
तेजसा पूरयन् विश्वं भाति देवो महेश्वरः
विभ्राजमानं विमले तस्मिन् ददृशुरासने
अनन्यतेजसं शान्तं शिवं ददृशिरे किल
तमासनस्थं भूतानामीशं ददृशिरे किल
स वासुदेवमासीनं तमीशं ददृशुः किल
निरीक्ष्य पुण्डरीकाक्षं स्वात्मयोगमनुत्तमम्
प्रशान्तमानसाः सर्वे ज्ञानमीश्वरभाषितम्
यन्न देवा विजानन्ति यतन्तो ऽपि द्विजातयः
न संसारं प्रपद्यन्ते पूर्वे ऽपि ब्रह्मवादिनः
वक्ष्ये भक्तिमतामद्य युष्माकं ब्रह्मवादिनाम्
अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः
स कालो ऽग्निस्तदव्यक्तं स एवेदमिति श्रुतिः
स मायी मायया बद्धः करोति विविधास्तनूः
नायं पृथ्वी न सलिलं न तेजः पवनो नभः
न रूपरसगन्धाश्च नाहं कर्ता न वागपि
न माया नैव च प्राश्चैतन्यं परमार्थतः
तद्वदैक्यं न संबन्धः प्रपञ्चपरमात्मनोः
तद्वत् प्रपञ्चपुरुषौ विभिन्नौ परमार्थतः
नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि
विकारहीनं निर्दुः खमानन्दात्मानमव्ययम्
सा चाहङ्कारकर्तृत्वादात्मन्यारोप्यते जनैः
भोक्तारमक्षरं शुद्धं सर्वत्र समवस्थितम्
अज्ञानादन्यथा ज्ञानं तच्च प्रकृतिसंगतम्
अहङ्काराविवेकेन कर्ताहमिति मन्यते