प्राह गम्भीरया वाचा किमर्थं तप्यते तपः
साक्षान्नारायणं देवमागतं सिद्धिसूचकम्
भवन्तमेकं शरणं प्रपन्नाः पुरुषोत्तमम्
नारायणः स्वयं साक्षात् पुराणो ऽव्यक्तपूरुषः
शुश्रूषास्माकमखिलं संशयं छेत्तुमर्हसि
कश्चिदात्मा च का मुक्तिः संसारः किंनिमित्तकः
किं तत् परतरं ब्रह्म सर्वं नो वक्तुमर्हसि
विहाय तापसं रूपं संस्थितं स्वेन तेजसा
श्रीवत्सवक्षसं देवं तप्तजाम्बूनदप्रभम्
न दृष्टस्तत्क्षणादेव नरस्तस्यैव तेजसा
प्रसादाभिमुखो रुद्रः प्रादुरासीन्महेश्वरः
तुष्टुवुर्हृष्टमनसो भक्त्या तं परमेश्वरम्
जयाशेषमुनीशान तपसाभिप्रपूजित
जयानन्त जगज्जन्मत्राणसंहारकारण
जयाम्बिकापते देव नमस्ते परमेश्वर
समालिङ्ग्य हृषीकेशं प्राह गम्भीरया गिरा
इमं समागता देशं किं वा कार्यं मयाच्युत
प्राह देवो महादेवं प्रसादाभिमुखं स्थितम्
अभ्यागता मां शरणं सम्यग्दर्शनकाङ्क्षिणः
सन्निधौ मम तज्ज्ञानं दिव्यं वक्तुमिहार्हसि
ततस्त्वमात्मनात्मानं मुनीन्द्रेभ्यः प्रदर्शय
प्रदर्शयन् योगसिद्धिं निरीक्ष्य वृषभध्वजम्
कृतार्थं स्वयमात्मानं ज्ञातुमर्हथ तत्त्वतः
ममैव सन्निधावेष यथावद् वक्तुमीश्वरः
सनत्कुमारप्रमुखाः पृच्छन्ति स्म महेश्वरम्
किमप्यचिन्त्यं गगनादीश्वरार्हं समुद्बभौ
तेजसा पूरयन् विश्वं भाति देवो महेश्वरः
विभ्राजमानं विमले तस्मिन् ददृशुरासने
अनन्यतेजसं शान्तं शिवं ददृशिरे किल
तमासनस्थं भूतानामीशं ददृशिरे किल